पूर्वम्: ६।१।५४
अनन्तरम्: ६।१।५६
 
सूत्रम्
बिभेतेर्हेतुभये॥ ६।१।५५
काशिका-वृत्तिः
बिभेतेर् हेतुभये ६।१।५६

णौ इति वर्तते, विभाषा इति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद् भयम्, स यस्य भयस्य साक्षाद् हेतुः, तद्भयम् हेतुभयम्। तत्र वर्तमानस्य ञिभी भये इत्यस्य धातोः णौ परतः विभाषा आकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। भीस्म्योर् हेतुभये १।३।३८ इत्यात्मनेपदम्। भियो हेतुभये षुक् ७।३।४०। स च आत्त्वपक्षे न भवति। लिभियोः ईकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुक् विधीयते। हेतुभये इति किम्? कुञ्चिकयैनं भाययति। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर् देवदत्तात्।
न्यासः
बिभेतेर्हेतुभये। , ६।१।५५

"हतुभये" इति। "पञ्चमी भयेन" २।१।३६ इति पञ्चमीसमासोऽयमित्याह--"ततो यद्भयम्()" इति। किं पुनस्ततो भयम्()? इत्याह--"स यस्य भयस्य" इत्यादि। अथात्त्वपक्षे षुगागमः कस्मान्न भवति? अस्ति ह्रत्रापि प्राप्तिः--"एकदेशविकृतमनन्यवद्भवति" (व्या।प।१६) इत्यत आह--"स च" इत्यादि। "भियो हेतुभये षुक्()" (७।३।४०) इत्यत्र हि भी+ई इ त ईकारेण प्रश्लिष्टस्य निर्देशः कृतः--ईकारान्तस्यैव षुग्? यथा स्यात्(), आकारान्तस्य मा भूदीति। तथा लियो ग्रहणम्(), तस्याप्यात्त्वपक्षे "लीलोर्नुक्लुकावन्यतरस्यां स्नेहविपातने" ७।३।३९ इति नुग्न भवति। ईकारप्रश्लेषनिर्देशादेवेति प्रसङ्गेन व्युत्पादितम्()॥
बाल-मनोरमा
बिभेतेर्हेतुभये ४२१, ६।१।५५

बिभेतेर्हेतुभये। "आदेच उपदेशे" इत्यत एच इति,आदिति चानुवर्तते। "वभाषा लीयते" रित्यतो विभाषेति, "चिस्फुरो"रित्यतो णाविति च। हेतुभयं - प्रयोजकाद्भयम्। तदाह --बिभेतेरेच इत्यादिना।

तत्त्व-बोधिनी
बिभेतेर्हेतुभये ३६९, ६।१।५५

बिभेतेर्हेतुभये। हेतुः-- प्रयोजकः। इह "आदेच उपदेशे" इत्यत एच आदित्यनुवर्तते, "विभाषा लीयते"रित्यतो विभाषा, "चिस्फुरो"रित्यतो णाविति च। तदाह-- बिभेतेरेच इत्यादि।