पूर्वम्: ६।१।५६
अनन्तरम्: ६।१।५८
 
सूत्रम्
सृजिदृशोर्झल्यमकिति॥ ६।१।५७
काशिका-वृत्तिः
सृजिदृशोर् ज्ञल्यम् अकिति ६।१।५८

सृज विसर्गे, दृशिर् प्रेक्षणे इत्येतयोः धात्वोः ज्ञलादावकिति प्रत्यये परतः अम् आगमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादो ऽयम् अमागमः। अस्राक्षीत्। अद्राक्षीत्। सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते। ज्ञलि इति किम्? सर्जनम्। दर्शनम्। अकिति इति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानादिह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्याम् इति।
लघु-सिद्धान्त-कौमुदी
सृजिदृशोर्झल्यमकिति ६४७, ६।१।५७

अनयोरमागमः स्याज्झलादावकिति। स्रष्टा। स्रक्ष्यति। सृक्षीष्ट। असृष्ट। असृक्षाताम्॥ मृष तितिक्षायाम्॥ २६॥ मृष्यति, मृष्यते॥ ममर्ष। ममर्षिथ। ममृषिषे। मर्षितासि। मर्षिष्यति, मर्षिष्यते॥ णह बन्धने॥ २७॥ नह्यति, नह्यते। ननाह। नेहिथ, ननद्ध। नेहे। नद्धा। नत्स्यति। अनात्सीत्, अनद्ध॥
लघु-सिद्धान्त-कौमुदी
इति दिवादयः ४ ६४७, ६।१।५७

लघु-सिद्धान्त-कौमुदी
अथ स्वादयः ६४७, ६।१।५७

लघु-सिद्धान्त-कौमुदी
षुञ् अभिषवे १ ६४७, ६।१।५७

न्यासः
सृजिदृशोर्झल्यमकिति। , ६।१।५७

"रुआष्टा, द्रष्टा" इति। उमागमे कृते यणादेशः, व्रश्चादि ८।२।३६ सूत्रेण षत्वम्()। "लघूपधगुणापवादौऽयम्()" इत्यादि। ननु चासति सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यादिति, तत्र गुणे कृतेऽमागमो भविष्यति? नैतदेवम्(); सामान्यविहितो गुणः विशेषविहितस्त्वमागमः, सामान्यविहितस्य च विशेषविहितो बाधको भवति, यथा--ब्राआह्रणेभ्यो दधिदीयतां तक्रं कौण्जन्यायेति। यथा सामान्यविहितस्य दधिदानस्य विशेषविहितं तक्रदानं बाधकं भवति तथेहापि युक्ताऽमागममेन गुणस्य बाधा। "अरुआआक्षीत्(), अद्राक्षीत्()" इति। "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्(), "अस्ति सिचोऽपृक्ते" ७।३।९६ इतीट्(), "वदव्रजहलन्तस्याचः" ७।२।३ इति वृद्धिः, "षढोः कः सि" ८।२।४१ इति कत्वम्()। "वृद्धिरमिकृते भवति" इति। अथ प्रागेव वृद्धिः कस्मान्न भवति? इत्याह--"पूर्वन्तु बाध्यते" इति। यथैव हि विशेषविहितत्वादमागमेन सामान्यविहितो गुणो बाध्यते, तथा वृद्धिरपि सामान्यविहितैवामागमे कृते पश्चात्? पुनःप्रसह्गविज्ञानात्? सिद्धमिति सापि भवति। गुणस्त्वमागमे कृते न भवति; निमित्तस्य विहितत्वात्()। न ह्रमागमे कृत उपधा लघ्वी गुणभाविन्युपपद्यते। अथेह कस्मान्न भवति--रज्जुसृङ्भ्याम्(), देवदृग्भ्यामिति; सत्यपि धात्वधिकारे "क्विबन्ता धातुत्वं न जहति (व्या।प।१३२) इति भ्याम्प्रत्ययमकितमाश्रित्यामागमः प्राप्नोति? इत्यत आह--"धातोः" इत्यादि॥
बाल-मनोरमा
सृजिदृशोर्झल्यमकिति २३८, ६।१।५७

इडभावपक्षे "अनुदात्तस्य" इति अमागमविकल्पे प्राप्ते-- सृजिदृशोः। अम्-अकिति इति च्छेदः। नित्यार्थमिदम्। दद्रष्ठेति। ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः। इट्पक्षे त्वाह-- ददर्शिथेति। अझलादित्वादम् नेति भावः। द्रष्टेति। तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः। द्रक्ष्यतीति। अमागमे शस्य षत्वे "षढो"रिति कत्वे सस्य ष इति भावः। पश्यतु। अपश्यत्। पश्येत्। आशीर्लिङि आह--दृश्यादिति। अझलादित्वादम् नेति भावः। लुङि विशेषमाह-- इरित्त्वादङ् वेति। अत्र अङ्पक्षे गुणनिषेधे प्राप्ते--

तत्त्व-बोधिनी
सृजिदृशोर्झल्यमकिति २१०, ६।१।५७

झलि किम्?। ससर्ज। ददर्श। अकितीति किम्?। सृष्टः। सृष्टवान्। दृष्टः। दृष्टवान्।