पूर्वम्: ६।१।५
अनन्तरम्: ६।१।७
 
सूत्रम्
जक्षित्यादयः षट्॥ ६।१।६
काशिका-वृत्तिः
जक्षित्यादयः षट् ६।१।६

अभ्यस्तम् इति वर्तते। जक्ष इत्ययं धातुः इत्यादयश्च अन्ये षट् धातवः अभ्यस्तसंज्ञा भवन्ति। सेयं सप्तानां धातूनाम् अभ्यस्तसंज्ञा विधीयते। जक्ष भक्षहसन्योः इत्यतः प्रभृति वेवीङ् वेतिना तुल्ये इति यावत्। जक्षति। जाग्रति। दरिद्रति। चकासति। शासति। दीध्यते, वेव्यते इत्यत्र अभ्यस्तानाम् आदिः इत्येष स्वरः प्रयोजनम्। दीध्यतिति च शतरि व्यत्ययेन सम्पादिते न अभ्यस्ताच् छतुः ७।१।७८ इति नुमः प्रतिषेधः।
लघु-सिद्धान्त-कौमुदी
जक्षित्यादयः षट् ३४८, ६।१।६

षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः। जक्षत्, जक्षद्। जक्षतौ। जक्षतः॥ एवं जाग्रत्। दरिद्रत्। शासत्। चकासत्॥ गुप्, गुब्। गुपौ। गुपः। गुब्भ्याम्॥ ,
न्यासः
जक्षित्यादयः षट्?। , ६।१।६

"जक्षित्यादयः" इति। एष निदशो जक्षेः श्तिबन्तस्यादिशब्देन बहुव्रीहावपि कृते भवति, द्वन्द्वेऽपि--यदा जक्षेरनजन्तस्येत्यादिशब्दस्य च द्वन्द्वः क्रियते। वाक्येऽपि यदानयोरनन्तरोक्तयोरुभयोरपि प्रयोगो भवति, तदा तत्र बहुव्रीहौ गृह्रमाणे यदि तद्गुणसंविज्ञानोऽयं बहुव्रीहिराश्रीयेत, तदा वेवीङो ग्रहणं न स्यात्(); अथातद्गुणसंविज्ञानोऽयम्(), तदा जक्षेर्न स्यादितीमं बहुव्रीहेराश्रयणे दोषं दृष्ट्वेतरयोः पक्षरोरन्यतरमाश्रित्याह--"जक्षित्ययं धातुरित्यादयश्च" इत्यादि अत्रेतिशब्देऽतिक्रान्तप्रत्यवमर्शी। जक्षित्ययं धातुरनन्तरमतिक्रान्त इति स एव तेन प्रत्यवमृश्यते। इति आदिर्येषां त इत्यादयः, जक्षादय इत्यर्थः। ते पुनर्जागृप्रभृतयो वेवीङ्पर्यन्ताः। "सेयं सप्तानां धातूनामभ्यस्तसंज्ञा" इति। जक्षित्येतदुपलक्षितानां जागर्तिप्रभृतीनां षष्णां जक्षितिरित्येतस्य च सप्तमस्य तेभ्यः पृथग्निर्दिष्टस्य। ननु च दीध्यते, वेव्यत इत्यत्रादादेशः "आत्मनेपदेष्वनतः" ७।१।५ इत्यनेनैव सिद्धः, शेषं चाभ्यस्त कार्यमाकारलोपादिकम्? तच्च दीधीवेव्योर्न सम्भवत्येव, तत्राकारलोपस्तावदाकारस्याभावान्न सम्भवति; जुस्भावोऽपि झेरभावात्(), नुम्प्रतिषेधोऽपि ङित्वादात्मनेपदित्वाच्छतुः, तत्? किमर्थमनयोरभ्यस्तसंज्ञा विधीयते? इत्याह--"दीध्यते वेव्यते" इत्यादि। "दीष्यदिति च शतरि" इत्यादिना प्रयोजनान्तरमपि दर्शयति। आत्मनेपदित्वादनयोव्र्यत्ययेन विना शता न सम्भवतीति व्यत्यग्रहणम्()॥
बाल-मनोरमा
जक्षित्यादयः षट् , ६।१।६

अभ्यस्तसंज्ञायाश्च द्वित्वनिबन्धनत्वादिहाऽप्राप्ताविदमारभ्यते--जक्षित्यादयः। "अभ्यस्त"मित्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते। तत्र जक्षितिरादिर्येषामिति तद्गुणसंविज्ञानबहुव्रीहौ सति जक्ष धातुमारभ्य षण्णामेव ग्रहणं स्यात्, वेवीङो न स्यात्। अतद्गुणसंविज्ञानबहुव्रीहौ तु जागृ इत्यारभ्य षण्णां ग्रहणं स्यान्नतु जक्षेः। अतो व्याचष्टे--षड्धातव इत्यादि। अत्र विवरणवाक्ये "जक्षिति"रिति श्तिपा निर्देशः। जक्षधातुरित्यर्थः। "रुदादिभ्यः सार्वधातुके" इति इडागमे रूपम्। सूत्रे जक्षिति पृथक्पदम्। इतिना जक्षिः परामृश्यते। इति आदिर्येषामित्यद्गुणसंविज्ञानबहुव्रीहिः। ततस्च "इत्यादयः षट्" इत्यनेन जक्षधातोरन्ये जागृ इत्यारभ्य षड् धातवो विवक्षिताः। चशब्दोऽध्याहार्यः। एवं च जक्षधातुश्च, जागृधातुमारभ्य षड् धातवश्चेत्येव सप्त धातवोऽभ्यस्तसंज्ञकाः स्युरिति फलतीत्यर्थः। तदिदं भाष्ये स्पष्टम्। जक्षदिति। अभ्यस्तत्वान्नुम्निषेध इति भावः। ननु दीधीवेव्योर्ङित्त्वात् "अनुदात्तङित" इति आत्नेपरदसंज्ञक एव लटः शानजादेशः स्यान्न तु शत्रादेश इत्यत आह--दीधीवेव्योरिति। दीधीवेव्योश्छन्दोमात्रविषयत्वं तिङन्ताधिकारे वक्ष्यते। ततश्च "व्यत्ययो बहुव"मिति छान्दसं परस्मैपदम्। अतः शानजसंभवात् शत्रादेश एवेत्यर्थः। दीध्यद्वेव्यदिति। दीधी वेवी इत्याभ्यां लटः शत्रादेशे कृते शब्लुकि यणादेशः। अभ्यस्तत्वाच्च नुम्नेति भावः। इति तान्ताः। अथ पान्ताः। गुबिति। "गुपू रक्षणे" क्विप्। "आयादय आर्धधातुके वा" इति वैकल्पिकत्वादायप्रत्ययो नेति भावः। गुब्भ्यामिति। "स्वादिषु" इति पदत्वाद्भ्यामादौ जश्त्वमिति भावः। इति पान्ताः।