पूर्वम्: ६।१।५८
अनन्तरम्: ६।१।६०
 
सूत्रम्
शीर्षंश्छन्दसि॥ ६।१।५९
काशिका-वृत्तिः
शीर्षंश् छन्दसि ६।१।६०

शीर्षनिति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयम् आदेशः शिरःशब्दस्य। शो ऽपि हि छन्दसि प्रयुज्यत एव। शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति। यत्ते शीर्ष्णो दौर्भाग्यम्। छन्दसि इति किम्? शिरः।
न्यासः
शीर्षंश्छन्दसि। , ६।१।५९

किं पुनः कारणमादेशो नेष्यते? इत्याह--"सोऽपि हि" इत्यादि। यतः शिरःशब्दोऽपि च्छन्दति प्रयुच्यते, ततो नायमादेशः प्रयुज्यते। आदेशे हि सति शिरःशब्दस्य च्छन्दसि विषये प्रयोगो न स्यात्(), निवृत्तिधर्मत्वात्? स्थानिनः। यद्यन्यतरस्यांग्रहणमिहानुवत्र्तते तदादेशेऽप्यदोषः। "शीर्षा" इति। "नोपधायाः" ६।४।७ इति दीर्धः। क्वचित्? शीष्र्णेति पठ()ते, तत्? तृतीयान्तं द्रष्टव्यम्()। "अल्लोपोऽनः" ६।४।१३४ इत्यकारलोपः। "शीर्ष्णः" इति। षष्ठ()एकवचनान्तमेतत्()॥