पूर्वम्: ६।१।६२
अनन्तरम्: ६।१।६४
 
प्रथमावृत्तिः

सूत्रम्॥ णो नः॥ ६।१।६३

पदच्छेदः॥ णः ६।१ नः १।१ धात्वादेः ६।१ ६२ उपदेशे ७।१ ४४

अर्थः॥

धात्वादेः ण-कारस्य स्थाने उपदेशावस्थायां न-कारः आदेशः भवति

उदाहरणम्॥

णीञ् - नयति। णम - नमति। णह - नह्यति॥
काशिका-वृत्तिः
णो नः ६।१।६५

धातोरादेः इत्यनुवर्तते। धातोरादेर् णकारस्य नकार आदेशो भवति। णीञ् नयति। णम नमति। णह नह्यति। धात्वादेः इत्येव, अणति। सुब्धातोरयम् अपि नेष्यते, णकारम् इच्छति णकारीयति। उपसर्गादसमासे ऽपि णोपदेशस्य ८।४।१४ इत्यत्र णत्वविधेर् व्यवस्थार्थं णादयो धात्वः केचिदुपदिष्यन्ते। के पुनस् ते? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते, सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जम्।
लघु-सिद्धान्त-कौमुदी
णो नः ४६०, ६।१।६३

धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥
न्यासः
णो नः। , ६।१।६३

"सुब्धातोरयमपि नेष्यते" इति। पूर्वस्मदेव हेतोः। "उपसर्गादसमासेऽपि" इत्यादि। अत्र पूर्वानुसारेण पूर्वपक्षो विज्ञेयः। "नृतीनन्दि" इत्यादि। "नृती गात्रविक्षे#एपे" (धा।पा।१११६), "टुनदि समृद्धौ" (धा।पा।६७), "नर्द गद्र्द शब्दे" (धा।पा।५६,५७), "नक्क वक्क ["धक्क"--घातुपाठः] नाशने" (धा।पा।१५९३,१५९४), "नट अवस्यन्दने" [अवस्पन्दने--घातुपाठः] (धाचपा।१५४५) चुरादिणिजन्तः, "नाथृ नाधृ याञ्चोपतापै()आर्याशीःषु" (धा।पा।६।७), "नृ नये" (धा।पा।८०९,१४९५)॥
बाल-मनोरमा
णो नः १३०, ६।१।६३

णो नः। "ण" इति षष्ठ()न्तं। "धात्वादेः षः सः" इत्यतोऽनुवर्तनादाह---धातोरादेरिति। तेन अणतीत्यादौ न नत्वम्। नः स्यादिति। नकारः स्यादित्यर्थः। नदतीति। "मेघादि"रिति शेषः। "णो नः" इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि। अथ "नृत्()ननर्द्()नन्दनक्क्()नाट्नाथृनानृ()वर्ज णोपदेशाः" इति भाष्यं श्लोकार्धेन सङ्गृह्णाति-- णोपदेशास्त्विति। "नर्द शब्दे"। "नट अवस्यन्दने" चुरादिः। नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ। "टु नदि समृद्धौ"। "नक्क नाशने"। नृ? नये"। "नृती गात्रविक्षेपे" एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः। "नाटी"ति ण्यन्तस्य प्रयोजनमाह-- नाटेरिति। घटादिरिति। "नटनृत्ता"विति घटादिपठित इत्यर्थः। तत्फलं घटादौ वक्ष्यते। मतान्तरमाह-- तवर्गेति। तवर्गचतुर्थान्तनाधधातोर्नृ()नन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः। अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम्। भाष्यविरोधोऽत्रारुचिबीजम्।

तत्त्व-बोधिनी
णो नः १०४, ६।१।६३

णो नः। धातोरिति। "धात्वादेः षः सः इत्यतोऽनुवर्तनाद्धात्वादेरित्येव। नेह--अणति। णोपदेशान्पर्युदासमुखेनाह-- णोपदेशास्त्विति। "नर्द शब्दे"। "नट अवस्यन्दने"। चुरादिः। यस्तु नट नृत्ताविति घटादिः स नेह गृह्रते, नाटीति दीर्घनिर्देशात्। "नाथृ नाधृ याच्ञादौ"। "टुनदि समृद्धौ"। "नक्क नाशने"। "नृ? नये"। "नृती गात्रविक्षेपे"। एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः। तवर्गेति। तेषां मते तु पञ्चब्यो भिन्ना णोपदेशाः।