पूर्वम्: ६।१।६७
अनन्तरम्: ६।१।६९
 
सूत्रम्
शेश्छन्दसि बहुलम्॥ ६।१।६८
काशिका-वृत्तिः
शेः छन्दसि बहुलम् ६।१।७०

शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना। यानि क्षेत्राणि। यानि वनानि।
न्यासः
शेश्छन्दसि बहुलम्?। , ६।१।६८

"जस्()शसोः शिः" ७।१।२० इति यः शिरादेशस्तस्यायं लोपो विधीयते। "या क्षेत्रा, या वना" इति। शेर्लोपे कृते प्रत्यलक्षणेन "नपुंसकस्य झलचः" ७।१।७२ इति नुम्(), "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इति दीर्घः, "नलोपः प्रातिपदिकान्तस्य ८।२।७ इति नलोपः। वेति कत्र्तव्ये बहुलग्रहणं सर्वविधिव्यभिचारार्थम्()। "तेन सर्वे विधयश्छन्दसि विक्ल्प्यन्ते" (पु।प।वृ।५६), इत्युपपन्नं भवति॥