पूर्वम्: ६।१।७१
अनन्तरम्: ६।१।७३
 
सूत्रम्
आङ्माङोश्च॥ ६।१।७२
काशिका-वृत्तिः
आङ्माङोश् च ६।१।७४

तुकिति अनुवर्तते, छे इति च। आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङश्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति। पदान्ताद् वा ६।१।७३ इति विकल्पे प्राप्ते नित्यं तुगागमो भवति। ईषदर्थे ईषच्छाया आच्छाया। क्रियायोगे आच्छादयति। मर्यादाभिविध्योः आ च्छायायाः आच्चायम्। माङः खल्वपि मा च्छैत्सीत्। मा च्छिदत्। ङिद्विशिष्टग्रहणं किम्? आछाया, आच्छाया। प्रमाछन्दः, प्रमाच्छन्दः।
लघु-सिद्धान्त-कौमुदी
श्रुवः शृ च ५०१, ६।१।७२

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च। शृणोति॥
न्यासः
आङ्माङोश्च। , ६।१।७२

अत्राकारो ङिदुपात्तः स चेषदादावर्ते वत्र्तत इत्याह--"आङ्()" ["अङः" काशिका, पदमञ्जरी च] इत्यादि। माशब्दोऽपि ङिदुपात्तः, सोऽपि निषेधे वर्तत इत्याह--"माङश्च प्रतिषेधवचनस्य" इति। "आच्छादयति" इत्यादि। "छद अपवारणे" (धा।प।१९३५) चौरादिकः। अत्र "छादनक्रियाङा विशिष्यत इति स क्रियायोगे वत्र्तते। "आच्छायायाः" इति। मर्यादायामङ्()। छायाम्()=मर्यादां परिवृत्त्येत्यर्थः। "आङ् मर्यादावचने १।४।८८ इत्याङश्च कर्मप्रवचनीयसंज्ञकस्य योगे "पञ्चम्यपाङ्परिभिः" २।३।१० इति पञ्चमी। "आच्छायम्()" इति। छायामभिव्याप्येत्यर्थः। "आङ्मर्यादाभिविव्योः" २।१।१२ इति पञ्चम्यन्तेनाव्ययीभावः, "नाव्ययीभावादतोऽम्त्वपञ्चम्याः" २।४।८३ इति विभक्तेर्लुगम्भावश्च। "मा च्छिदत्? इति। इरित्त्वाच्चलेरङ्()। "आछाया, आच्छाया" इति। अत्राकारः स्मरणए वत्र्तते, तत्र चास्य ङित्त्वं नास्ति; "वाक्यस्मरणयोरङित्()" इति वचनात्()। तेनात्र "पदान्ताद्वा" ६।१।७३ इति विकल्पो भवति। "प्रमाछन्दः" इति। "माङ्? माने" (धा।पा।११४२) प्रपूर्वः "आतश्चोपसर्गे" ३।३।१०६ इत्यङ्(), स्त्रियाम्? "अजाद्यतष्टाप्()" ४।१।४ ननु च लाक्षणिकत्वादेवात्र न भविष्यति? नैतदस्ति; "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति वचनात्()॥
बाल-मनोरमा
छे च १४५, ६।१।७२

छे च। "ह्यस्वस्य पिती"त्यतो "ह्यस्वस्ये"ति "तु"गिति चानुवर्तते। "संहिताया"मित्यधिकृतं, तदाह--ह्यस्वस्येति। तुकः ककार इत्। उकार उच्चारणार्थः। कित्त्वाद्ध्रस्वस्यान्तावयवः। स्वस्य-छाये"ति षष्ठीसमासे सुब्लुकि वकारादकारस्य तुकि स्वच्छायेति स्थिते वस्तुगत्या प्रक्रियाक्रमं दर्शयति--चुत्वस्येत्यादिना। ननु स्वच्-छायेति स्थिते तुको ह्यस्वावयवस्य पदान्तात्वात्तत्स्थानिकचकारस्य चोः कुरिति कुत्वं स्यादित्याशङ्क्याह--चुत्वस्येति।

बाल-मनोरमा
आङ्भाङोश्च १४६, ६।१।७२

आङ्भाङोश्च। छे तुगित्यनुवर्तते। तदाह-एतयोरिति। आङ्भाङोरित्यर्थः। ननु दीर्घादित्येव सिद्धे किमर्थमिदमित्यत आह-विकल्पापवाद इति। आच्छादयति। माच्छिददिति। तुकि पूर्ववत्प्रक्रिया। दीर्घात्। छे तुगित्यनुवर्तते।