पूर्वम्: ६।१।७२
अनन्तरम्: ६।१।७४
 
सूत्रम्
दीर्घात् पदान्ताद्वा॥ ६।१।७३
काशिका-वृत्तिः
दीर्घात् ६।१।७५

छे तुकिति वर्तते। दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य तुगागमो भवति। ह्रीच्छति। म्लेच्छति। अपचाच्छायते। विचाच्छायते।
काशिका-वृत्तिः
पदान्ताद् वा ६।१।७६

दीर्घात् छे तुकिति वर्तते। पदान्ताद् दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया, कुटीछाया। कुवलीच्छाया, कुवलीछाया। विश्वजनादीनां छदसि वा तुगागमो भवति इति वक्तव्यम्। विश्वजनच्छत्रम्, विश्वजनछत्रम्। नच्छायां करवो ऽपरम्। न छायां करवो ऽपरम्।
न्यासः
दीर्घात्?। , ६।१।७३

"उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्()" (शाकटायन।प।९७) दीर्घादिति पञ्चम्याश्छे इत्यस्याः सप्तम्याः षष्ठ()आं प्रकल्पितायाम्? "तस्मादित्युत्तरस्य" (१।१।६७) इति च्छकारस्यैव तुक्? प्राप्नोतीति कस्याचिद्भ्रान्तिः स्यत्त्, अतस्तां निराकर्त्तुमाह--"दीर्गात्? परो यश्छकारः तस्मिन्? परतः पूर्वस्य" इत्यादि। एवं मन्यते--"तस्मादित्यत्तरस्य" १।१।६६ इत्यत्र तस्मादिति योगविभागः कत्र्तव्यः, "पूर्वस्य" इति पूर्वसूत्रादनुवत्र्तते, तेन दीर्घादित्यादौ सत्यपि पञ्चमीनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य। न चातिप्रसङ्गः योगविभागादिष्टसिद्धेरिति। "ह्यीच्छति" इति। "ह्यीच्छ लज्जायाम्()" (धा।पा।२१०)। "म्लेच्छति" इति। "म्लेच्छ अव्यक्तायां वाचि" (धा।पा।१६६२)। "अपचाच्छायते" इति। "छो छेदने" (धा।पा।११४६), "आदेच उपदेशेऽशिति" ६।१।४४ इत्यात्वम्(), यङ्? "दीर्घोऽकितः" ७।४।८३ इत्याभ्यासस्य दीर्घः॥
न्यासः
पदान्ताद्वा। , ६।१।७३

"कुटीछाया" इति। षष्ठीसमासः, असमासो वा। "दि()आजनादीनाम्()" इत्यादि। "वि()आजन" इत्येवमादीनां छन्दसि विषये विकल्पेन तुग्भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्()--"सर्वे विधयश्चन्दसि विकल्प्यन्ते" (पु।प।वृ।५६) इति प्राक्? प्रतिपादितमेतत्()। तेन वि()आजनादीनां छन्दसि वा तुग्भवतीति॥
बाल-मनोरमा
दीर्घात् ३१८, ६।१।७३

तदाह--दीर्घादित्यादिना। "उभयनिर्देशे पञ्चमीनिर्देशो बलीया"निति छकारस्य तुगन्तावयवः स्यात्। ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचर्त्वे "गुणो यङ्लुको"रिति अभ्यासगुणे, तङि, चे-छिद्यते इति स्थिते, छकारस्यान्त्यवयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारोत्तरद्विचकारकमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह--दीर्घस्यायं तुगिति। ततश्च छकारात्प्राग्दीर्घस्योपरि तुकि, जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति। छकारस्य खर्परकत्वाभावाच्चर्त्वं न भवतीति चकाराच्छकारश्रवणं निर्बाधम्। ननु दीर्घस्यायं तुगिति कुत इत्यत आह--सेनेति। उत्तरसूत्रे पदान्तदीर्घाच्छे तुग्विकल्पविधानादिदं सूत्पमुपदान्तविषयमित्यभिप्रेत्य उदाहरति-चेच्छिद्यत इति। (१४७) पदान्ताद्वा।६।१।७६।

पदान्ताद्वा। "तुक्" "छे" "दीर्घात्" इत्यनुवर्तते। तदाह--दीर्घात् पदान्तादित्यादिना। अयमपि तुग्दीर्घस्यैव नतु छस्य। उक्तज्ञापकात्॥

इति बालमनोरमायां हल्सन्धिप्रकरणम्।

अथ जुहोत्यादयः।

अथ श्लुविकरणा धातवो निरूप्यन्ते। हु दानाऽदनयोरिति। दाने अदने चेत्यर्थः। भाष्यमिति। "तृतीया च होश्छन्दसी"ति सूत्रस्थ"मिति शेषः। ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हि "ब्राआहृमाय गां ददाती"त्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह--दानं चेह प्रक्षेप इति। नन्वेवमपि कूपे घटं प्रक्षिपति, आहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत आह-- स चेति। सः = प्रक्षेपो, विधिबोधिते आधारे = आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः। कुत इत्यत आह--- स्वभावादिति। अनादिसिद्धलोकव्यवहारादित्यर्थः। तथाच विधिबोधिते आधारे विधिबोधितस्य देवतायै त्यज्यमानसय् हविषः हुधातुर्वर्तते इति फलितम्। एतच्च पूर्वमीमांसायां तृतीये "सर्वप्रदानं हविषस्तदर्थत्वा"दित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः।

तत्त्व-बोधिनी
दीर्घात् ११९, ६।१।७३

सेनासुरेति। यदि हि छस्य तुक्()स्यात्तर्हि छस्य चर्त्वे सति चद्वयं स्यात् संनिपातपरिभाषया चर्त्त्वाऽप्रवृत्तौ तु छकारोपरि चकारः श्रूयतेति भावः।

तत्त्व-बोधिनी
पदान्ताद्वा २७६, ६।१।७३

पदान्ताद्वा। प्रकृतेन दीर्घेण पदविशेषणात्तदन्तविधिलाभेनेष्टसिद्धावप्यन्तग्रहणं पदान्तस्यैव तुग्यथा स्यात्पदस्य मा भूदित्येतदर्थम्। अन्यथा पदविधित्वात्समर्थपरिभाषोपस्थितौ समर्थेषु "लक्ष्मीच्छाये"त्यादिष्वेव स्यात्, "तिष्ठतु कुमारी, छत्रं हर देवदत्ते"त्यत्र न स्यात्, असामथ्र्यात्। एवं "न पदान्ताट्टो"रिति सूत्रे "पदाट्टो"रिति वक्तव्येऽन्तग्रहणं "दुष्टाः षट्", "सन्तस्त्रय" इत्यत्रापि ष्टुत्वनिषेधार्थमित्याहुः

इति तत्त्वबोधिन्यां हल्सन्धिप्रकरणम्।

--------------------------

अथ जुहोत्यादयः॥

अथ जुहोत्यादयः। हु दाना। यद्यपि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वाऽ‌ऽपादनमेव दानं, तथापि प्रयोगमनुसृत्य व्याचष्टे-- प्रक्षेप इति। वैध इति। आहवनीयादौ। इविष इति। विधिबोधितद्रव्यस्येत्यर्थः। स्वभावादिति। तेन आहवनीये पुरोडाशे प्रक्षेप्तव्ये प्रमादेन कोपेन [कामेन] वा पाषाणः प्रक्षिप्तः, पुरोडाशो वा गर्तादौ, स तु प्रक्षेपो न होम इति ज्ञेयम्। परस्मपैदिन इति। तेन "होष्ये" इति केषांचित्प्रयोगोऽसाधुरेव। "स्मराग्नौ जुह्वानाः" इत्यानन्दलहरीप्रयोगस्तु साधुरेव, शानचोऽप्रवृत्तावपि चानशन्तत्वात्।