पूर्वम्: ६।१।७८
अनन्तरम्: ६।१।८०
 
सूत्रम्
क्रय्यस्तदर्थे॥ ६।१।७९
काशिका-वृत्तिः
क्रय्यस् तदर्थे ६।१।८२

क्रीणातेः धातोः तदर्थे क्रयार्थें यत् तस्मिन्नभिधेये यति प्रत्यये परतः अयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः स उच्यते। तदर्थे इति किम्? क्रेयं नो धान्यं, न च अस्ति क्रय्यम्।
न्यासः
क्रययस्तद्र्थे। , ६।१।७९

"क्रय्यः" इति। अत्र प्रत्ययार्थश्च कर्म विदयते; कर्मणि कृत्यविधानात्()। प्रकृत्यर्थश्च विनिमयः, क्रीणातेर्विनिमयार्थत्वात्()। तत्र प्रतययार्थः प्रधानम्(), "प्रकृतिप्रत्यौ प्रत्ययार्थं सह ब्राऊतः" इति कृत्वा। प्रकृत्यर्थस्तूपसर्जनम्(), प्रतत्ययार्थविशेषणमिति कृत्वा। तत्र यदि प्रधानत्वात्? तदित्यनेन प्रत्यार्थो निर्दिश्येत तदायमर्थः स्यात्()--स क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः, तस्मिन्नभिधेये ऋय्य इत्येष शब्दो निपात्यत इति? अयुक्तश्चायम्(); न ह्रत्र क्रय्यशब्दस्य क्रय्यार्थः कश्चिच्छब्दोऽभिधेयोऽस्ति, ततस्तस्याप्रतीतेः। अथैवं विज्ञायेत--स एवार्थस्तदर्थ इति? एवमपि तदर्थग्रहणमनर्थकम्()। अवश्यमेव हि क्रय्यशब्दो यत्प्रतययान्तस्तस्मिन्? यत्प्रत्ययार्थे वत्र्तते। तस्मात्? तच्छब्देन प्रधाननिर्देशे सति तदर्थग्रहणस्यानर्थक्यम्()। अतो गुणभूतोऽपि प्रकृत्यर्थो निर्दिश्यत इति मत्वाऽ‌ऽह--"तदर्थे क्रयार्थं यत्? तस्मिन्नभिधेये" इति। तस्मै इदं तदर्थम्()। क्रयार्थमित्यनेन क्रीणात्यर्थस्तच्छब्देन निर्दिश्यत इति दर्शयति। क्रयणं क्रयः, विनियम इत्यर्थः। क्रयार्थमित्यत्रापि चतुर्थीसमास एव--क्रयाय इदं क्रयार्थम्()। "क्रायार्थ यः प्रसारितः" इति। विनिमयार्थं य उपन्यस्त इत्यर्थः। "क्रेयं नो धान्यम्()" इति। क्रेतव्यम्()=ग्रहीतव्यम्(), स्वीकत्र्तव्यमितद्यर्थः। "न चास्ति क्रव्यम्()" इति। न चात्र क्रयार्थमुपन्यस्तं धान्यमस्तीत्यर्थः।
बाल-मनोरमा
क्रय्यस्तदर्थे ६७, ६।१।७९

क्रय्यस्तदर्थे। इदमपि यान्तादेशनिपातनार्थम्। तदर्थशब्दं व्याचष्टे - तस्मा इति। क्रय्यशब्दे यः क्रीञ्धातुर्यत्प्रत्ययप्रकृतिभूतस्तस्ययोऽर्थोऽभिधेयो द्रव्यविनिमयरूपः क्रयः स प्रकृत्यर्थस्तच्छब्देन विवक्षितः। तस्मै इदं तदर्थं=क्रयार्थं वस्तु। तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति। "यान्तः क्रीञस्तदर्थ" इति विधौगौरवान्निपातनमाश्रितम्। क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह--क्रेतार इत्यादि क्रय्यमित्यन्तम्। योग्यतामात्रग्रहणे तु "तदर्थे"इत्यव्यावर्तकं स्यादिति भावः। क्रीञः कर्मणि "अचो यत्" इति यत्। "सार्वधातुके"ति गुण एकारः। अत्रैकारस्याऽच्परकत्वाऽभावादनेनाऽयादेशविधिः। क्रेयमन्यदिति। गृहादौ भोजनाद्यर्थं संगृहीतं धान्यादीत्यर्थः। "अर्हे कृत्यतृचश्चेति"यत्। अत्राऽयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राऽभावादित्यर्थः।

तत्त्व-बोधिनी
क्रय्यस्तदर्थे ५६, ६।१।७९

प्रकृत्यर्थायेति। प्रकृत्यर्थो द्रव्यविनिमयः।