पूर्वम्: ६।१।८२
अनन्तरम्: ६।१।८४
 
सूत्रम्
षत्वतुकोरसिद्धः॥ ६।१।८३
काशिका-वृत्तिः
षत्वतुकोरसिद्धः ६।१।८६

षत्वे तुकि च कर्तव्ये एकदेशो ऽसिद्धो भवति, सिद्धकार्यं न करोति इत्यर्थः। असिद्धवचनम् आदेशलक्षणप्रतिषेधर्थम्, उत्सर्गलक्षणभावार्थं च। को ऽसिचतित्यत्र एङः पदान्तादति ६।१।१०५ इति एकादेशस्य परं प्रत्यादिवद्भावातपदादेरिण उत्तरस्य आदेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वान् न भवति। को ऽस्य, यो ऽस्य, को ऽस्मै, यो ऽस्मै इत्येकादेशस्य असिद्धत्वातिणः इति षत्वं न भवति। तुग्विधौ अधीत्य, प्रेत इत्यत्र एकादेशस्य असिद्धत्वात् ह्रस्वस्य पिति कृति तुक् ६।१।६९ इति तुग् भवति। सम्प्रसारनङीट्सु प्रतिषेधो वक्तव्यः। सम्प्रसारणे ब्रह्महूषु। सम्प्रसारणपूर्वत्वस्य असिद्धत्वात् षत्वं न प्राप्नोति। ङौ वृक्षे च्छत्रम्, वृक्षे छत्रम्। इटि अपचे च्छत्रम्, अपचे छत्रम्। आद्गुणस्य असिद्धत्वाद् ह्रस्वलक्षणो नित्यो ऽत्र तुक् प्राप्नोति, दीर्घात्, पदान्ताद् वा ६।१।७३ इति तुग्निकल्प इष्यते।
न्यासः
षत्वतुकोरसिद्धः। , ६।१।८३

इहासिद्धवचनेनकादेशस्याभावो वा क्रियते? तत्कार्यसामथ्र्य वा प्रतिपाद्यते? सिद्धमपि हि वस्तु सिद्धकार्यं कर्तुमसामथ्र्यादसिद्धमित्युच्यते, यथा--पुत्रकार्यकरणेऽसामथ्र्यात्? पुत्रोऽप्यपुत्र इति। तत्र यद्यनेनैकादेशस्याभावः क्रियते तदाधीत्येत्यत्र तुग्न स्यात्(), न हीह ह्यस्वोऽस्ति; एकादेशेन निवर्त्तितत्त्वात्()। न चासिद्धवचनेनैकादेशे निवर्त्तिते ह्यस्वस्य प्रादुर्बावो भवति, न हि देवदत्तस्य हन्तरि हते पुनर्देवदत्तस्य प्रादुर्भावो भवतीतिममाद्ये पक्षे दोषं दृष्ट्वा कार्यसामथ्र्यमेकादेशस्यासिद्धत्वश्रुत्या प्रत्याय्यत इति दर्शयन्नाह--"सिद्धकार्यं न करोतीत्यर्थः" इति। सिद्धस्य निष्पन्नस्य यत्? कार्यं तदेकादेशः सिद्धो निष्पन्नोऽपि न करोतीत्ययमस्य वचनस्यार्थः। "असिद्धवचनम्()" इत्यादिना सूत्रस्य प्रयोजनमाचष्टे। आदेशे च कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्(), आदेशो लक्षणं निमित्तमस्येति कृत्वा। तस्य प्रतिषेधो यथा स्यादित्येवमर्थमसिद्धवचनम्()। उतसृज्यते निवर्त्त्यत इत्युत्सर्गः, स्थान्यभिधीयते। उत्सर्गो लक्षणं यस्य तदुत्सर्गलक्षणम्(), तद्भावो यथा स्यादित्येवमर्थञ्चासिद्धवचनम्()। "कोऽसिचत्()" इति। सिचेर्लुहि च्लिः, "लिपिसिचिह्वश्च" ३।१।५३ इति च्लेरङ्, किंशब्दात्? परस्य सकारस्य रुत्वम्? "अतो रोरप्लुतादप्लुते" ६।१।१०९ इत्युत्त्वम्(), "आद्गुणः" ६।१।८४ इति गुणः, "एङः पदान्तादति"६।१।१०५ इति परपूर्वत्वम्(), "परं प्रत्यादिवद्भावात्()" इत्यादि। असिचदित्यत्र योऽकारस्तं प्रत्येकादेशस्य "अन्तादिवच्च" ६।१।८२ इत्यनेनादिवद्भावः। अयञ्चापदादित्वे हेतुः। "असिद्धत्त्वान्न भवति" इति। असिद्धत्त्वे हि सति सकारोऽत्रादिरेव पदस्य भवति, तेन "सात्पदद्योः" ८।३।१११ इति षत्वप्रतिषेधो भवति। "कोऽस्य" इति। इदमः षष्ठ()एकवचनम्(), "त्यदादीनामः"७।२।१०२ इत्यत्वम्(), "टाङसिङ्सामिनात्स्याः" ७।१।१२ इति स्यभावः "हलि लोपः" ७।२।११३ इतीद्रूपस्य लोपः। शेषं पूर्ववत्()। एतदादेशलक्षणप्रतिषेधस्योदाहरणम्()। उत्सर्गलक्षणभावस्य तु "अधीत्य, प्रेत्य" इति। ननु च बहिरङ्ग एकादेशो द्विपदाश्रयत्वात्(); अन्तरङ्गादेव षत्वतुकौ, एकपदाश्रयत्वात्(), तत्र "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यनया परिभाषयैवात्रासिद्धत्वं भविष्यतीति निरर्थकमिदं वचनम्()? एवं तर्हि सैव परिभाषाऽत्र प्रकरणे षत्वतुकोनियम्यते। तेनाक्षद्यूरित्यत्र बहिरङ्गलक्षणोऽप्यूडादेशोऽन्तरङ्गयणादेशे कत्र्तव्ये नासिद्धो भवति। "सम्प्रसारण" इत्यादि। सम्प्रसारणे ङौ इटि च य एकादेशस्तस्यासिद्धत्वपरतिषेदो वक्तव्यः। "ब्राहृहूषु" इति। ब्राहृआणं ह्वयतीति क्विप्(), यजादित्वात्? सम्प्रसारणम्(), "सम्प्रसारणाच्च" ६।१।१९२ ति परपूर्वत्वम्(), "हलः" ६।४।२ इति दीर्घः। सप्तमीबहुवचनम्()। "परिवीषु" इति वेञः परिपूर्वसय पूर्ववत्? क्विदादिषु कृतेषु रूपम्। "अपचेच्छत्रम्()" इति। पचेर्लङ्युत्तमपुरुषैकवचनमिट्(), "कत्र्तरि शप्()" ३।१।६८ इति शप; "आदगुणः" ६।१।८४ इति गुणः॥
तत्त्व-बोधिनी
षत्वतुकोरसिद्धः १६०१, ६।१।८३

षत्वतुकोः। प्रासङ्गिकषत्वविषयमुदाहरति-- कोऽसिचदिति। को-- असिचदिति स्थिते "एङः पदान्तादती"ति पूर्वरूपमेकादेशः। तस्य "अन्तादिवच्चे"ति परादिवत्त्वेन "सात्पदाद्यो"रिति निषेधाऽभावादिणः परत्वेन षत्वं प्राप्तमेकादेशस्याऽसिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाऽभावान्न भवति। प्रकृतं ल्यपि कार्यमुदाहरति-- अधीत्येति। विधायेति। दधातेहिर्न।