पूर्वम्: ६।१।८४
अनन्तरम्: ६।१।८६
 
प्रथमावृत्तिः

सूत्रम्॥ वृद्धिरेचि॥ ६।१।८५

पदच्छेदः॥ वृद्धिः १।१ ८९ एचि ७।१ ८६ आत् ५।१ ८४ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ संहितायाम् ७।१ ७०

अर्थः॥

अवर्णात् परः यः एच्, एचि च परतः यः अवर्णः, तयोः पूर्वपरयोः स्थाने वृद्धिः एकादेशः भवति संहितायां विषये॥ पूर्वस्य अपवादः अयम्।

उदाहरणम्॥

ब्रह्म + एडका = ब्रह्मैडका, खट्वैडका। ब्रह्म + ऐतिकायनः = ब्रह्मैतिकायनः, खट्वैतिकायनः। ब्रह्म + ओदनः = ब्रह्मौदनः, खट्वैदनः। ब्रह्म + औपगवः = ब्रह्मौपगवः, खट्वैपगवः॥
काशिका-वृत्तिः
वृद्धिरेचि ६।१।८८

आतिति वर्तते। अवर्णात् परो य एच्, एचि च पूर्वो यः अवर्णः, तयोः पूर्वपरयोः अवर्णैचोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणस्य अपवादः। ब्रहमैडका। खट्वैडका। ब्रह्मैतिकायनः। खट्वैतिकायनः। ब्रह्मौदनः। खट्वौदनः। ब्रह्मौपगवः। खट्वौपगवः।
लघु-सिद्धान्त-कौमुदी
वृद्धिरेचि ३३, ६।१।८५

आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥
न्यासः
वृद्धिरेचि। , ६।१।८५

बाल-मनोरमा
वृद्धिरेचि ७३, ६।१।८५

वृद्धिरेचि। आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवत्र्तते। एकऋ पूर्वपरयोरित्यधिकृतम्। तदाह--आदेचीत्यादिना। गुणापवाद इति। आद्गुण इति प्राप्तावेतदारम्भादिति भावः। कृष्णैकत्वमिति। कृष्णस्य-एकत्वमिति षष्ठीसमासः। "पूरणगणे"ति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते। कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये। अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः। गङ्गा-ओघ इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः। एवं देवै()आर्यं कृष्णौत्कण्ठ()मित्यत्रापि। वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति त्रैव वक्ष्यामः।

तत्त्व-बोधिनी
वृद्धिरेचि ६०, ६।१।८५

वृद्धिरेचि। पूर्वसूत्रादादित्यनुवर्तते। तदाह-आदेचीति। "कृष्णे"ति संबोधने पृथक् पदम्। एवं "देवे"त्यपि। इत्थं चात्र षष्ठीसमासत्वमभ्युपेत्य "पूरणगुणे"ति निषेधमाशङ्क्य "संज्ञाप्रमाणत्वा"दित्यादिनिर्देशेन "गुणेन निषेधोऽनित्यः" इति केषाचिद्व्याख्यानं नात्यन्तावश्यकमिति बोध्यम्।