पूर्वम्: ६।१।९०
अनन्तरम्: ६।१।९२
 
प्रथमावृत्तिः

सूत्रम्॥ एङि पररूपम्॥ ६।१।९१

पदच्छेदः॥ एङि ७।१ पररूपम् १।१ ९६ उपसर्गात् ५।१ ८८ धातौ ७।१ ८८ आत् ५।१ ८४ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ संहितायाम् ७।१ ७०

अर्थः॥

अवर्णान्तात् उपसर्गात् एङादौ धातौ परतः पूर्वपरयोः स्थाने पररूपमेकादेशः भवति, संहितायां विषये॥

उदाहरणम्॥

उप + एलयति = उपेलयति, प्रेलयति। उप + ओषति = उपोषति, प्रोषति॥
काशिका-वृत्तिः
एङि पररूपम् ६।१।९४

आतित्येव, उपसर्गाद् धातौ इति च। अवर्णान्तातुपसर्गातेङादौ धातौ पूर्वपरयोः पररूपम् एकादेशो भवति। वृद्धिरेचि ६।१।८५ इत्यस्य अपवादः। उपेलयति। प्रेलयति। उपोषति। प्रोषति। केचित् वा सुप्यापिशलेः ६।१।८९ इत्यनुवर्त्यन्ति, तच् च वाक्यभेदेन सुब्धातौ विकल्पं करोति। उपेडकीयति, उपैडकीयति। उपोदनीयति, उपौदनीयति। शकन्ध्वादिषु पररूपं वाच्यम्। शक अन्धुः शकन्धुः। कुल अटा कुलटा। सीमन्तः केशेषु। सीम्नो ऽन्तः सीमन्तः। अन्यत्र सीमान्तः। एवे चानियोगे पररूपं वक्तव्यम्। इह एव इहेव। अद्य एव अद्येव। अनियोगे इति किम्? इहैअ भव, मा अन्यत्र गाः। ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्। स्थूल ओतुः स्थूलौतुः, स्थूलोतुः। बिम्बौष्ठी, बिम्बोष्ठी। समासे इति किम्? तिष्ठ देवदत्तौष्ठं पश्य। एमन्नादिषु छन्दसि पररूपं वक्तव्यम्। अपां त्वा एमनपां त्वेमन्। अपां त्वा ओद्मनपां त्वोद्मन्।
लघु-सिद्धान्त-कौमुदी
एङि पररूपम् ३८, ६।१।९१

आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥
न्यासः
एङि पररूपम्?। , ६।१।९१

"उपेलयति" इति। "इल प्रेरणे" (धा।पा।१६६०) चुरादिणिच्()। "प्रोखति इति। "उख नख" (धा। पा। १२८,१३४) इत्युखिर्गत्यर्थो भ्यादौ पठ()ते। यदि "वा सुपि" ६।१।८९ इत्यनुवत्र्तयन्ति, एवं सति तेन सहास्यैकवाक्यतायां सुबधातोरेवानेन विकल्पेन पररूपं क्रियते, असुपि तु पररूपं न स्यादेवेत्याह--"तच्च" इत्यादि। एकवाक्यत्वे हि सत्येष दोषः स्यात्()। न चात्रैकवाक्यता, किं तर्हि? वाक्यभेदः। तेन तदिहानुवत्र्तमानं सुब्धातावेव विकल्पं करोति, इतरतर तु नित्यमेव पररूपं प्रवत्र्तते। तत्रावर्णान्तादुपसर्गादसुबन्तावयवे धातावेङादौ पूर्वपरयोः पररूपमेकादेशो भवतीत्येकं वाक्यम्(), अवर्णान्तादुपसर्गात्? सुबन्तावयवे धातावेङादौ पूर्वपरमोर्वा पररूपमेकादेशो भवतीति द्वितीयम्()। तत्र पूर्वेण वाक्येनासुबन्तावयवे धातावुपेलयतत्यादौ नित्यं पररूपं दिधीयते। द्वितीयेन तु सुबन्तावयवे धातावुपेङकीयतीत्येवमादौ विकल्पेन पररूपं विधीयते। वाक्यभेदस्तु "एङि पररूपम्()" इति तन्त्रेण सूत्रद्वयोच्चारणाल्लभ्यते। सूत्रद्वये तूच्चार्यमाणे सत्येक एव "वा सुप्यापिशलेः" ६।१।८९ इत्येदनुवर्तमानमपि लभ्यानुरोधान्नाभिसम्बध्यते, द्वितीये तु सम्बध्यत एव। तेन वाक्यद्वयं पूर्वोक्तं सम्पद्यते। "वक्तव्यम्()" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानाम्()--उत्तरसूत्रे चकारोऽधिकविधानार्थः, तेन शकन्ध्वादिषु पररूपं भविष्यतीति। उत्तरत्राप वक्तव्यशब्दस्यायमर्थो व्याख्यानं चैतददेव वेदितव्यम्()। "एवे चानियोगे" इति। नियोगः=नियोजनम्(), व्यापारणमित्यर्थः। न नियोगोऽनियोगः=अनवक्लृप्तिः। तत्रैवशब्दे पररूपं वेदितव्यम्()। एवशब्दोऽनियमे वर्तते। यदा तमेव केवलं नियमं व्यापारेणाविशिष्टं ब्राऊते तदा पररूपं भवति। यदा तु व्यापारेम विशिष्टं तदा वृद्धिरेव। "बिम्बोष्ठी" इति। "नासिकोदरौष्ठ" ४।१।५५ इति ङीष्()। "तिष्ठ देवदत्तौष्ठं पश्य" इति वाक्यमेतत्? न तु समासः। देवदत्तशब्दात्? "एङ् ह्यस्वात्? सम्बुद्धेः" ६।१।६७ इति सोर्लोपः॥
बाल-मनोरमा
एङि पररूपम् ७९, ६।१।९१

एङि पररूपम्। उपसर्गादीति धाताविति चानुवर्तते। आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः। "यस्मिन्विधि"रिति परिभाषया तदादिग्रहणम्। "एकः पूर्वपरयो"रिति चाधिकृतम्। तदाह--अवर्णान्तादित्या दिना। एकादेश इति। पूर्वपरयो"रिति शेषः। प्रेजत इति। एजृ दीर्तौ। प्र-एजते इति स्थिते वृद्धिरेचीति वृदिं()ध बाधित्वाऽनेन पररूपमेकारः। एजृ कम्पने इति तु परस्मैपदी। उपोषतीति। उष दाहे। लट् तिप् शप्। लघूपधगुणः। उष ओषतीति स्थिते वृदिं()ध बाधित्वाऽनेन ओकारः। ननु एकडो मेषः, तमात्मन इच्छति एडकीयति , उप एडकीयतीति स्थितेऽनेन नित्यमेव पररूपं स्यात्, इष्यते तु वृद्धिरपि--उपैडकीयति उपैडकीयतीति। तत्राह--इहेति। "एङि पररूप"मित्यत्र वा सुपीत्यनुवत्र्तते। तच्च नैकवाक्यतया संबध्यते। तथा सति अवर्णान्तादुपसर्गादेङादौ सुब्धातौ परे पररूपमेकादेशो वा स्यादित्येवार्थः स्यात्। एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात्। अतो वाक्यभेदेन व्याख्येयम्। "एङि पररूप"मिति प्रथमं वाक्यम्। अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः। "वा सुपी"ति द्वितीयं वाक्यम्। तत्र एङि पररूपमित्यनुवर्तते। धातौ उपसर्गादित्यादि च। ततश्च उक्तपररूपविषये सुब्धातौ परे पररूपं वा स्यादिति लभ्यते। तदाह--तेनेति। उक्तरीत्या वाक्यभेदाश्रयणेन एङादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः। एवे चानियोगे। नियोगशब्दं व्याचष्टे--नियोगोऽवधारणमिति। अवधारणम्न्ययोगव्यवच्छेदः। तदन्यस्मिन्नर्थे य एवशब्दस्तस्मिन्नकारात्परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः। क्वेव भोक्ष्यस इति। अत्रेति न निश्चिनुम इत्यर्थः। क्व-एव इति स्थिते वृदिं()ध बाधित्वाऽनेन वार्तिकेन पररूपमेकारः। अनवक्लृप्ताविति। अनवधारण इत्यर्थः। तवैवेति। नान्यस्येत्यर्थः। अत्रैवशब्दस्याऽवधारणार्थत्वान्न तस्मिन् परे पररूपम्। अथ क्वचिट्टेः पररूपं विधातुं टिसंज्ञामाह-अचोऽन्त्यादि टि। "अच" इति निर्धारणे षष्ठी। जातावकवचनम्। अन्ते भवेऽन्त्यः, अन्त्य आदिर्यस्य तत्-अन्त्यादीति विग्रहः। फलितमाह-अचां मध्य इति। शकन्ध्वादिष्विति। शकन्ध्वादिषु विषये तत्सिद्ध्यर्थं पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः। ततश्च शकादिशब्दानां टेरचि परे टेश्च परस्याचश्च स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते। आदित्यनुवृत्त#औ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धेः। तदाह-तच्च टेरिति। शकन्ध्वादिगणं पठति--शकन्धुरित्यादिना। शकानां-देशविशेषाणाम्, अन्धुः=कूप इति विग्रहः। कर्क-अन्धुरिति स्थिते पररूपम्। कुलटेति। अट गतौ। पचाद्यच्। टाप् कुलानामटेति विग्रहः। भिक्षार्थं व्यभिचारार्थं वा या गृहानटति सा कुलटा। कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणञिति ङीप्स्यात्। कुल-अटेति स्थिते पररूपम्।

सीमन्तः केशवेशे इति। गणान्तर्गतवार्तिकमेतत्। केशानां वेशः=सन्निवेशविशेषः। तस्मिन् गम्येसीमन्शब्दस्य टेः-"अ"नित्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थः। आदित्यनुवृत्तौ तु इदं न सिध्येत्।

सीमान्तोऽन्य इति। ग्रामान्तप्रदेश इत्यर्थः। मनीषेति। मनस-ईषेति विग्रहः,। अत्र "अ"सिति टेरीकारस्य च स्थाने पररूपमीकारः। ईष गतौ। "गुरोश्च हलः" इत्यप्रत्ययः। टाप्। बुद्धिर्मनीषा"इत्यमरः। हलीषेति। "ईषा लाङ्गलदण्डः स्यादि"त्यमरः। हलस्य ईषेति विग्रहः। "करिकलभ" इतिवत्पुनरुक्तिः समाधेया। अत्र गुणे प्राप्ते पररूपम्। एवं लाङ्गलीषेत्यत्रापि। पतञ्जलिरिति। पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः। अत्र "अ"दिति टेरकारस्य च स्थाने पररूपमकारः। केचित्तु गोनर्दाख्यदेशे कस्यचिदृषेः सन्ध्योपालनसमयेऽञ्जलेर्निर्गत इत्यैतिह्रा दञ्जलेः पतन्निति विगृह्णन्तिव। मयूरव्यंसकादित्वात्समासः। सारङ्गः पशुपक्षिणोरिति। इदमपि गणान्तर्गतं वार्तिकम्। भाष्ये तु न दृश्यते। "सार"शब्द उत्कृष्टे। "सारो बले स्थिरांशे च न्याय्ये क्लीबेऽम्बरे त्रिषु" इत्यमरः। साराणि अङ्गानि यस्येति विग्रहः। सार-अङ्ग इति स्थिते सवर्णदीर्घे प्राप्तेऽनेन पररूपम्। "चातके हरिणे पुंसि सारङ्गः शबले त्रिषु" इत्यनरः। आकृतिगणोऽयमिति। आकृत्या= एवञ्जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः। लोकप्रयोगानुसारेणैवंजातीयकाः शब्द#आ अस्मिन् गणे निवेशनीय इति यावत्। तत्फलमाह--मार्तण्ड इति। मृतमण्डं यस्य स मृतण्डः कश्चिदृषिः। मृत-अण्ड इति स्थिते सवर्णदीर्घं बाधित्वाऽनेन पररूपम्। ततेऽपत्येऽणि मार्तण्डः। "परामार्ताण्डमास्थ"दिति सवर्णदीर्घस्तु च्छान्दसः। ओत्वोष्ठयोः। अवर्णादोतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो रचोः स्थाने पररूपं वक्तव्यमित्यर्थः। स्थूलोतुरिति। "ओतुर्बिडालो मार्जारः" इत्यमरः। स्थूल--ओतुरिति स्थिते वृदिं()ध बाधित्वा पाक्षिकं पररूपम्। बिम्बोष्ठ इति। बिम्बफलवद्रक्तवर्णावोष्ठौ यस्येति विग्रहः।

तत्त्व-बोधिनी
एङि पररूपम् ६७, ६।१।९१

एङि पररूपम्। "एङ्ये"ङित्येव सिद्धे "पर"-ग्रहणमुत्तरार्थम्। "रूप" ग्रहणं तु स्पष्टार्थम्, "अमि पूर्व"वदेङि पर इत्येव सिद्धेः। प्रेजत इति। "एजृ दीप्तौ"। कम्पनार्थस्तु परस्मैपदी। प्रेजति।

एवे चाऽनियोगे। नियोगोऽवधारणमिति। निर्धारणमित्यर्थः। तदुक्तम्-"अनवक्लृप्तौ यदा दृष्टः पररूपस्य गोचरः। एवस्तु विषयो वृद्धेर्नियमेऽयं यदा भवेत्।" इति। अस्यार्थः-अनवक्लृप्तौ अनिश्चये यदा एवकारो दृष्टः स पररूपस्य विषयः। यस्तु नियमे निर्धारणे यदा दृष्टः स वृद्धेर्विषय इति। ये तु "नियोगे त्वद्यैव गच्छे"ति प्राचोग्रन्थे स्थितस्य प्रत्युदाहरणस्यानुगुणतया "नियोजनं नियोगो व्यापार" इति व्याचक्षते, तेषां "यदैव पूर्वं ज्वलने शरीरं" "ममैव जन्मान्तरपातकाना"मिति लौकिकप्रयोगाः, "तपस्तपःकर्मकस्यैव" "लङः शाकटायनस्यैवे"त्यादिसौत्रप्रयोगाश्चन सिद्धयेयुः। उदाह्मतवृत्तिश्लोकविरोधश्च स्यात्। "अवधारण"मिति व्याकुर्वतां तु सर्वेष्टसिद्धिः। (६६) अचोऽन्त्यादि टि।१।१।६४।

अचोऽन्त्यादि टि। "अच" इति निर्धारणे षष्ठी। जातावेकवचनं, तदाह-अचां मध्य इति।

शकन्ध्वादिषु पररूपं वाच्यम्। शकन्ध्वादिष्विति। शकन्ध्वादिविषये तत्सिद्धयनुगुणं पररूपं वाच्यमित्यर्थः। अतएवाह-तच्च टेरिति। यदि तु "आ"दित्यधिकारादकारस्यैवेष्येत तर्हि मनीषा पतञ्जलिरिति न सिध्येत्। केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपे अकारस्यैव पररूपमाहुः। शकानां देशविशेषाणामन्धुः कूपः। कर्काणां राजविशेषाणामन्धुः कर्कन्धुः अटतीत्यटा। पचाद्यचि टाप्। कृलस्य अटा कुलटा। यदि तु कुलमटतीति विगृह्रते तदा कर्मण्यणि ङीपि "कुलाटी"ति त्यात्। "ईष उञ्छे"। "ईष गत्यादिषु"। आभ्यां "गुरोश्च हलः" इत्यप्रत्यये ईषा। मनस ईषा मनीषा। हलस्य ईषा हलीषा। ईषा-लाङ्गलदण्डः। पतन्तोऽञ्जलयो यस्मिन्नमस्कार्यत्वादिति पतञ्जलिः। मार्तण्ड इति। पररूपेणानेन "मृतण्ड" इति सिद्धे तत अण्यादिवृद्धिः। "परा मार्ताण्डमास्यत्" "पुनर्मार्ताण्डमाभरत्" इत्यादिषु तु दीर्घश्छान्दस इति भावः। केचिदत्र सवर्णदीर्घमेवाहुः। पूर्वोक्तवैदिकप्रयोगास्तेषामनुकूलः।

ओत्वोष्ठयोरिति। अकारस्य ओत्वोष्ठयोश्च एकत्र समासे स्थितौ सत्यामिदं प्रवर्तते। तेनेह न,-"वृषलसुतौष्ठव्रणस्ते" इति।