पूर्वम्: ६।१।९२
अनन्तरम्: ६।१।९४
 
प्रथमावृत्तिः

सूत्रम्॥ उस्यपदान्तात्॥ ६।१।९३

पदच्छेदः॥ असि ७।१ ९४ अपदान्तात् ५।१ ९४ पररूपम् १।१ ९१ आत् ५।१ ८४ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ संहितायाम् ७।१ ७०

समासः॥

पदस्य अन्तः पदान्तः। न पदान्तः अपदान्तः, तस्मात् ॰ पूर्वं षष्ठीतत्पुरुषः, ततः नञ्तत्पुरुषः।

अर्थः॥

अपदान्तात् अवर्णात् असि परतः पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति संहितायां विषये। आद्गुणापवादः॥

उदाहरणम्॥

भिन्द्या + उस् = भिन्द्युः, छिन्द्युः। अदा + उस् = अदुः, अयुः।
काशिका-वृत्तिः
उस्यपदान्तात् ६।१।९६

आतित्येव। अवर्णातपदान्तातुसि पूर्वपरयोः आद्गुणापवादः पररूपम् एकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उसदुः। अया उसयुः। अपदान्तातिति किम्? का उस्रा कोस्रा। का उषिता कोषिता। आतित्येव, चक्रुः। अबिभयुः।
लघु-सिद्धान्त-कौमुदी
उस्यपदान्तात् ४९४, ६।१।९३

अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ ग्लै हर्षक्षये॥ १७॥ ग्लायति॥
न्यासः
उस्यपदान्तात्?। , ६।१।९३

"भिन्द्युः" इति। भिदेर्लिङ्(), झि, यासुट्? "झेर्जुस्()" ३।४।१०८ इति जुस्(), श्नम्(), "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः, "लिङः सलोपोऽनन्तयस्य" ७।२।७९ इति सकारलोपः, भिन्द्या+उसिति स्थितेऽनेन पररूपत्वम्()। "अदुः" इति। ददातेर्लुङ्(), झि, "आतः" ३।४।११० इति झेर्जस्(), "गातिस्थाट २।४।७७ इति सिचो लुक्, अदा+उसिति स्थितेऽनेन पररूपत्वम्()। "कोरुआआ, कोषिता" इति। ननु चात्रैकस्मिन्? प्रत्युदाहरणे "अर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इत्यनया परिभाषयैव न भविष्यति, उरुआआशब्दो हि समुदायोऽर्थवान्(), न तूसित्येष तदवयवः। द्वितीये तु "लक्षणप्रतपदोक्तयोः प्रतपदोकतस्यैव ग्रहणं न तु लाक्षणिकस्य" (व्या।प।३) इत्यनया परिभाषयाऽपि न भविष्यति, लाक्षणिको हि तत्रोस्? तथा हि वसेर्निष्ठायां "वसतिक्षुधोरिट्()" (७।२।५२) यजादित्वात्? सम्प्रसारणे कृते--उषितेति, तत्र पररूपं न सम्पद्यते, तत्? किमपदान्तादित्यनेन? एवं तह्र्रेतदतिरिच्यमानमपदान्तग्रहममर्थवदनर्थवत्त्वादिकं विशेषमनपेक्ष्योस्मात्रे पररूपं भवतीत्यमुमर्थं द्योतयति। तेन नानर्थके "उस्यपदान्तात्()" इत्येतद्भवति। भिन्द्युरित्यत्र हि यासुडादिः समुदायोऽर्थवान्(), न तु तदवयव उस्()। लाक्षणिकेऽपि भवतीति--बभुषः पश्येति। "भा दीप्तौ", (धा।पा।१०५१) लिटः क्वसुः; शस्(), "वसोः सम्प्रसारणम्()" ६।४।१३१ इति सम्प्रसारणम्(); "सम्प्रसारणाच्च" ६।१।१०४ इति पूर्वरूपम्, बभा उस अस्? इति स्थितेऽनेन पररूपत्वम्()। एतत्? सार्वधातुकपक्ष उदाहरणं वेदितव्यम्()। अर्धधातुकपक्षे ह्रकारलोपेनैव सिद्धम्()। सानुबन्धकेऽपि भवति--अधुर#इति। क्व तर्हि स्यात्()? बभूरिति। ननु चानर्थक्ये सत्यपदान्तग्रहणस्यायमर्थः परिकल्प्येत, अस्ति चास्योक्तसूत्रे प्रयोजनम्(), किं तत्? अपदान्ताद्यथा स्यादिह मा भूदिति--दण्डाग्रमिति? नैतदस्ति; यद्येतदेव प्रयोजनमभिमतं स्यात्(), तदोत्तरसूत्र एवेदं कुर्यात्()। इह करणात्तु यथोक्तार्थप्रतिपादनपरतैव तस्यावगम्यते। अधिकाराच्चोत्तरार्थतापि भवत्येव। कोषितेत्यत्र "वसतिक्षूधोः" ७।२।५२ इतीट्(), "शासवसिघसीनां च" ८।३।६० इति षत्वम्(), तस्य चासिद्धत्वात्? पररूपत्वप्राप्तिर्वेदितव्या। "चऋः" इति। कृत्रो लिट()उसि रूपम्()। "अबिभयुः" इति। "ञिभी भये" (धा।प।१०८४) लङ्, शप्(), "जुहोत्यादिभ्यः श्लुः" २।४।७५ इति श्लुः, द्विर्वचनम्(), "सिजभ्यस्तविदिभ्यश्च" (३।४।१०९) इति झेर्जुस्? "जुसि च" ७।३।८३ इति गुणः॥
तत्त्व-बोधिनी
उस्यपदान्तात् ४७, ६।१।९३

अन्तरङ्गत्वादिति। प्रत्ययमात्रापेक्षत्वात्। "अतो येयः" इत्यस्य त्वाङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वेन बहिरङ्गत्वादिति भावः। नचाऽपदान्ताऽकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेन्मैवम्, अनेकाश्रयणेऽपि प्रत्ययमात्राश्रयतया प्रकृतेरनाश्रयणात्। व्याख्येयमिति। एतच्च विप्रतिषेधसूत्रे भाष्ये स्पष्टम्॥