पूर्वम्: ६।१।९४
अनन्तरम्: ६।१।९६
 
सूत्रम्
अव्यक्तानुकरणस्यात इतौ॥ ६।१।९५
काशिका-वृत्तिः
अव्यक्तानुकरणस्य अत इतौ ६।१।९८

अव्यक्तम् अपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णम् एव केनचित् सादृश्येन तदव्यक्तम् अनुकरोति, तस्य यो अत्शब्दः तस्मातितौ पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। पटतिति पटिति। घटतिति घटिति। ज्ञटतिति ज्ञतिति। छमितिति छमिति। अव्यक्तानुकरणस्य इति किम्? जगतिति जगदिति। अतः इति किम्? मरटिति मरडिति। इतौ इति किम्? पटतत्र पटदत्र। अनेकाच इति वक्तव्यम्। इह मा भूत्, श्रतिति श्रदिति। कथम् घटदिति गम्भीरमम्बुदैर्नदितम् इति? दकारान्तम् एतदनुकरणं द्रष्टव्यम्।
न्यासः
अव्यक्तानुकरणस्यात इतौ। , ६।१।९५

"अव्यक्तमपरिस्फुटवर्णम्()" इति। अपरिस्फुटा=अव्यक्ता, अनभिव्यक्ता अकारदयो वर्णा यत्र तत् तथोक्तम्। यद्येवम्(), तदनुकरणेनापि तथाविधन भवितव्यम्, सदृशं ह्रनुकरणं भवति न त्वसदृशम्(), ततश्चानुकार्य इवानुकरणेऽपि नैवाच्छब्दोऽवधार्यते, अनवधारितस्य च कथं शक्यते पररूपतवं विधातुम्()? इत्यत आह--"तदनुकरणम्()" इत्यादि। यदि तर्हि तदनुकरणं परिस्फुटवर्णम्(), एवं सति तत्? तस्यानुकरणमेव न स्यात्(), न हि विसदृशमनुकरणं भवति, तेनानुकर्त्तुमशक्यत्वात्(), अतिप्रसङ्गो वेत्यत आह--"केनचित्()" इत्यादि। तत् पुनः सादृश्यं ध्वनेसतुल्यता, उभयोरपि तयोः समानो ध्वनिः। तेन यद्यप्यनुकरणे वर्मविशेषा अवधार्यन्ते, तथापि ध्वनेः समानतया तदवयक्तमप्यनुकार्यमनुकरोति। "पटिति" इति। ननु च "अलोऽन्त्यस्य" १।१।५१ इत्यनया परिभाषयान्त्यस्य भवितव्यम्(), तत्कथं सर्वस्यैवाच्छब्दस्य भवति? नैष दोषः; "नानर्थकेऽलोन्त्यविधिः" (व्या।प।६२) इति। अथ वा--यदयम्? "नाम्रेडितस्यान्त्यस्य तु व" ६।१।९६ इत्यत्रान्त्यगरहणं करोति, ततोऽवसीयते--नात्रालोऽन्त्यस्येत्येषा परिभाषा प्रवत्र्तत इति। कथं पुनः पररूपे कृते तदनुकार्यस्य प्रतिपादनं भवति, कुतश्च न भविष्यति? न्यूनत्वात्()? नैष दोषः; यथैव हि व्यकतवर्ममपि तस्य केनचित्साधम्र्येण प्रतिपादकं भवति तथा न्यूनमपि भविष्यतीति। "अनेकाच इति वक्तव्यम्()" इति। अनेकाचोऽव्यक्तानुकरणस्य पररूपं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--उत्तरसूत्रे वाग्रहममुभयोरपि योगयोः शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेनानेकाच एव भविष्यति, न त्वेकाच इति। "कथम्()" इति। तकरान्तमेतदव्यकतमनुकरणमिति मन्यमानस्य प्रश्नः॥
बाल-मनोरमा
अव्यक्तानुकरणस्यात इतो ८१, ६।१।९५

अव्यक्तानुकरणस्य। पररूपमिति वत्र्तते। अव्यक्तः=अस्फुटवर्णविभागो वृक्षपतनादिजनितध्वनिः। तस्यानुकरणं=तत्प्रतिपादकस्तत्सदृशोऽपरिस्फुटवर्णविभागः शब्दः। तस्यावयवो यो।ञच्छब्दस्तस्मादितिशब्दे परेऽच्छब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः। अत्र इतिशब्दे यः प्रथम इकारस्तस्मिन्परे इति व्याख्येयम्। अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात्। तदाह-धवनेरित्यादिना। अत्राऽलोऽन्त्यस्येति न भवति, "नानर्थकेऽलोऽन्त्यविधि"रिति निषेधात्। पटत्-इतीति प्रक्रियावाक्यप्रदर्शनम्। न तु पररूपाऽभावपक्षे रूपमिति भ्रमितव्यम्, अत्र पररूपस्य नित्यत्वात्। असंहितायां निर्देशो वा। पटितीति। उदाहरणमेतत्। "वृक्षः पतित" इत्याद्यध्याहार्यम्।

अत्राऽनेकाज्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सङ्गृह्णाति--एकाचो नेति। एकोऽच् यस्य स एकाच्, तथाभूतस्यानुकरणस्य उक्त पररूपं नेत्यर्थः। श्रदितीति। अत्र एकाच्त्वान्न पररूपम्। ननु पटत्पटत्-इतीत्यत्र पटत्पटेति रूपमिष्यते। तत्राव्यक्तानुकरणस्येति पररूपे पटत्पटितीत्येव स्यात्।