पूर्वम्: ६।१।९५
अनन्तरम्: ६।१।९७
 
सूत्रम्
नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि)॥ ६।१।९६
काशिका-वृत्तिः
न आम्रेडितस्य अनत्यस्य तु वा ६।१।९९

अव्यक्तानुकरणस्य आम्रेडितस्य यो अत्शब्दः इतौ तस्य पररूपं न भवति, तस्य यो ऽन्त्यस्तकारस्तस्य वा भवति। पटत्पटदिति, पटत्पटेति करोति। नित्यवीप्सयोः ८।१।४ इति द्विर्वचनम्। यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपम्, पटत्पटेति करोति।
काशिका-वृत्तिः
नित्यम् आम्रेडिते डाचि ६।१।१००

अव्यक्तानुकरणस्य, अतः, अन्त्यस्य इति च अनुवर्तते। डाच्परं यदम्रेदितं तस्मिन् पूर्वस्य अव्यक्तानुकरनस्य अच्छब्दस्य यो ऽन्त्यः तकारः तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपम् एकदेशो भवति। पटपटा करोति। दमदमा करोति। पटदित्यस्मातव्यक्तानुकरणातिति डाचि विहिते डाचि बहुलम् इति द्विर्वचनम्, तच् च टिलोपात् पूर्वम् एव इष्यते।
न्यासः
नाम्रेडितस्यान्त्यस्य तु वा। , ६।१।९६

"यदा तु" इत्यादि। पटत्पटदित्येष शब्दः समुदाय एवानुकरणम्(), तदा तस्याद्विरुक्तत्वातपरस्यावयवस्य पटच्छब्दस्याम्रेडितसंज्ञा नास्तीति पूर्वेम पररूपं भवत्येव॥
न्यासः
नित्यमाम्रेडिते डाचि। , ६।१।९६

"डाचपरम्()" इति। डाच् परो यस्मात्? तत् तथोक्तम्()। "डाचि विहिते" इत्यादि। विहित इति "हि गतौ (धा।पा।१२५७) इत्यस्य विपूर्वस्य रपमिदम्()। असय च "सर्वे गत्यर्था ज्ञानारथाः" इति विहिते=विज्ञाते बुद्धिस्थ एवेत्येषोऽर्थो वेदितव्यः। तेनायमर्थो भवति--डाचि विहिते बुद्धिस्थविषयभूत एवानुत्पन्ने "डाचि बहुलं द्वे" (वा।८८८) इति द्विर्वचनमिति। अवश्यञ्चैतदेवं विज्ञेयम्(); अन्यथा हि यदि डाचि विहिते कृत इत्येषोऽर्थः स्यात, तदा डाच परभूते "डाचि बहुलं द्वे" (वा।८८८) इत्यनेन द्विर्वचनं विधीयते। तथा च यद्वक्ष्यति--"डाचीति विषयसप्तमीयम्()" इति तद्विरुध्यते। किं पुनः कारणम्()--डाचि विहिते बुद्धिविषयीभूत एवानुत्पन्ने द्विर्वचनं विधीयते? इत्याह--"तच्च" इत्यादि। चशब्दो हेतौ। यस्माद्()द्विरवचनं टिलोपात्? पूरवमिष्यते तस्माड्डाचि विहिते बुद्धिस्थे विषयभूते एवानुतपन्ने द्विर्वचनं विधीयते न परभूते। एवं तट्टिलोपात्? पूर्वं सिध्यति; नान्यथा। यदि हे डाचि परभूते द्विर्वचनं न क्रियते, तदान्तरङ्गत्वाट्टिलोपे कृते पश्चाट्टकारान्तस्य द्विर्वचनमापद्येत, तथा च पटपटेति न सिध्येत्()। न च शक्यते वक्तुम्()--"नित्यमाम्रेडितं डाचि" इत्येतद्वचनं ज्ञापकं पूर्वं द्विर्वचनं भवति ततष्टिलोपः" इति; यस्मात्? पटदित्यादिकं टिलोपे कृते द्विरुच्यमानं यच्छब्दान्तं भवति तदर्थमेवेदं स्यात्()--पटपटाकरोतीति। अथ वा--डाचीति डाचि विहिते सति परसप्तम्यामदोष इति मन्यमानेन "डाचि विहिते" इत्युक्तम्()। डाचि विहिते सति "डाचि बहुलं द्वे" (वा।८८८) इत्यनेनोपसंख्यानेन दविर्वचनम्()। ननु चैवं सति "सर्वविधिभ्यो लोपविधिरबलीयान्()" (व्या।प।७०) इति द्विर्वचनात्? प्राक्? टिलोपः स्यात्(), तथा चानिष्टं रूपं प्रसज्येत? इत्यत आह--"तच्च" इत्यादि। कथं पुनष्टिलोपात्? पूर्वमिष्यमाणमेतल्लभ्यते? बहुलग्रहणात्()। अस्मिस्तु व्याख्याने विहित इति दधातेरेव तद्()रूपं तद्रूपं वेदितव्यम्()॥
बाल-मनोरमा
नाऽ‌ऽम्रेडितस्यान्त्यस्य तु वा ८२, ६।१।९६

तत्राह-नाम्रेडितस्य। "अव्यक्तानुकरणस्यात #इता"विति "पररूप"मिति "एकः पूर्वपरयो"रिति चानुवर्तते। आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात्। अन्त्यस्य तु वा। तुरवधारणे। अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः। तदाह--आम्रेडीतस्य प्रागुक्तमित्यादिना। ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह--डाचीति। "डाचि बहुलं द्वे भवत इति द्वित्व"मित्यन्वयः। नन्वव्यक्तानुकरणाद्()द्?व्यजवरार्धादनितौ डाच्" इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह--बहुलग्रहणादिति। वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः।