पूर्वम्: ६।२।१२७
अनन्तरम्: ६।२।१२९
 
सूत्रम्
कूलसूदस्थलकर्षाः संज्ञायाम्॥ ६।२।१२८
काशिका-वृत्तिः
कूलसूदस्थलकर्षाः संज्ञायाम् ६।२।१२९

कूल सूद स्थल कर्ष इत्येतानि उत्तरपदानि तत्पुरुषे समासे संज्ञायां विषये आद्युदात्तनि भवन्ति। दाक्षिकूलम्। माहकिकूलम्। देवसूदम्। भाजीसूदम्। दण्डायनस्थली। माहकिस्थली। दाक्षिकर्षः। ग्रामनामधेयानि एतानि। स्थालग्रहणे लिङ्गविशिष्टत्वात् स्थालीशब्दो ऽपि गृह्यते। जानपदकुण्ड इत्यनेन ङीष्। संज्ञायाम् इति किम्? परमकूलम्।
न्यासः
कूलसूदस्थलकर्षाः संज्ञायाम्?। , ६।२।१२८

कूलशब्द उक्तस्वरः, "षूद क्षरणे" (धा।पा।१७१७) इत्यस्मात्? "इगुपदात्? कः" ३।१।१३५, तेन सूदोऽन्तोदात्तः। "स्थल स्थाने" (()) इत्यस्मात्? पचाद्यच्(), तेन स्थलमन्तोदात्तम्()। कर्षशब्दः "कर्षात्वतो धञोऽन्त उदात्तः" इत्यन्तोदात्तः। "दाक्षिकूलम्()" इत्यादि। दाक्षिमाहकिशब्दाविञन्तावाद्युदातौ। देवशब्दः पचाद्यजन्तत्वादाद्युदात्तः। भाजीशब्दो जानपदादिसूत्रेण ४।१।४२ ङीषन्तत्वादन्तोदात्तः। दाण्डायनशब्दो नडादित्वात्? ४।१।९९ फगन्तः, तेन "कितः" ६।१।१५९ इत्यन्तोदात्तः। ननु च सूत्रे स्थलशब्द उपात्तः, तत्कथं स्थलीशब्द उत्तरपदमाद्युदात्तं चोदाह्यियते? इत्याह--"स्थलग्रहणम्()" इत्यादि॥