पूर्वम्: ६।२।१३४
अनन्तरम्: ६।२।१३६
 
सूत्रम्
कुण्डं वनम्॥ ६।२।१३५
काशिका-वृत्तिः
कुण्डं वनम् ६।२।१३६

कुण्डशब्दो ऽत्र कुण्डसादृश्येन वने वर्तते। कुण्डम् इत्येततुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति। दर्भकुण्डं। शरकुण्डम्। वनम् इति किम्? मृत्कुण्डम्।
न्यासः
कुण्डं वनम्?। , ६।२।१३५

"कुण्डशब्देऽत्रि कुण्डसादृश्येतन वने वत्र्तते" इति। यथा कुण्जं कस्यचिदुदकादेराश्रयस्तथा वनमपि। अतः कुण्जसादृश्येनात्र कुण्डशब्दो वने वर्तते। भवति हि सादृश्येन ताच्छब्द्यं यथा--अग्निमणिवक इति। "मृत्कुण्डम्()" इति। अत्र कुण्ड आकारविसेषो मृद्विकारे वर्तते, न वने। तेन समासान्तोदात्तत्वमेव भवति॥