पूर्वम्: ६।२।१४०
अनन्तरम्: ६।२।१४२
 
सूत्रम्
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु॥ ६।२।१४१
काशिका-वृत्तिः
न उत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ६।२।१४२

उत्तरपदे ऽनुदात्तादौ पृथिवी रुद्र पूषमन्थिवर्जिते देवताद्वन्द्वे न उभे युगपत् प्रकृतिस्वरे भवतः। इन्द्राग्नी। इन्द्रवायू। अग्निवायुशब्दौ अन्तोदात्तौ। उत्तरपदग्रहणम् अनुदात्तादौ इत्युत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषणं मा भूतिति। अनुदात्तादौ इति विधिप्रतिषेधयोः विषयविभागार्थम्। अपृथिव्यादिषु इति किम्? द्यावापृथिव्यौ। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र सोमारुद्रौ। रोदेर्णिलुक् च इति रुद्रशब्दो रक्प्रत्ययान्तो ऽन्तोदात्तः। पूषन् इन्द्रापूषणौ। स्वन्नुक्षन्पूषनिति पूषान्तोदात्तो निपात्यते। मन्थिन् शुक्रामन्थिनौ मन्थो ऽस्य अस्ति इति मन्थी। इन्नतत्वादन्तोदात्तः। पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव।
न्यासः
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु। , ६।२।१४१

"अग्निवायुशब्दावन्तोदात्तौ" इति। अग्निशब्दः "वीज्याज्वरिभ्यो निः" (द।उ।१।१८) इति वर्तमाने "अङ्गेर्नलोपश्च" (द।उ।१।२०) इति निप्रत्ययान्तः। वायुशब्दोऽपि "कृवापाजि" (द।उ।१।८६) इत्यादिनोण्प्रत्ययान्तः, तेन प्रत्ययस्वरेण द्वावप्यन्तोदात्तौ। अथोत्तरपदग्रहणं किमर्थम्(), यावता "अनुदात्तादौ" इति सप्तम्येवात्रानुदात्तादेरपदत्त्वं बोधयिष्यति? इत्यत आह--"उत्तरपदग्रहणम्()" इत्यादि। इह हि प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः, नोत्तरपदम्()। तत्रानुदात्तादाविति सप्तमी द्वग्द्वस्यैव विशेषणमापद्यते--अनुदात्तादौ द्वन्द्वः। उत्तरपदग्रहणे तु सति द्वन्द्वे सप्तम्यांविहितायामनुदात्ता(दा) वित्येतदुत्तरपदस्य विशेषणं सम्पद्यते। तस्मादुत्तरपदविशेषणमेतद्यथा स्तात्(), द्वन्द्वविशेषणं मा भूदित्येवमर्थमुत्तरपदग्रहणम्()। "अनुदात्तादौ" इति। असत्येतस्मिन्नविशेषणे विधिरपि देवताद्वन्द्व उच्यते, प्रतिषेधोऽपि, ततश्च तयोर्विषयविबागो न स्यात्(); एवञ्च समानविषयत्वाद्विकल्पः प्रसज्येत। अनुदत्तादावित्य()स्मस्तु सति यत्रानुदात्ताद्युत्तरपदो देवताद्वन्द्वस्तग्त्र प्रतिषेधः स्यात्(), ततोऽन्यस्तु विधिरिति विधिप्रतिषेधयोर्विषयविभागो भवति। अतो विषयविबागार्थमनुदात्तादावित्युच्यते। "पृथिवीशब्दो ङीष्प्रत्ययान्तः" इति। गौरादिषु पाठात्()। "रोदेर्णिलुक्? च" इति। "रुदिर्? अश्रुविमोचने" (धा।पा।१०६७) इत्यस्माण्ण्यन्तात्? "स्फायितञ्चि" (द।उ।८।३१) इत्यादि--सूत्रद्रगित्यनुवर्तमाने "रोदेर्णिलुक्? च" (द।उ।८।३९) इति रक्(), तेन रुद्रोऽन्तोदात्तः। "शुक्रामन्थिनौ" इति। शुक्रशब्दः "ऋजेन्द्रः" (द।उ।८।४६) इत्यादिना रन्()प्रत्ययान्तः, तेनाद्युदात्तः॥