सु इत्येतस्मादुपमानाच् च परं क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति। सुकृतम्। सुभुक्तम्। सुपीतम्। उपमानात् वृकावलुप्तम्। शशप्लुतम्। सिंहविनर्दितम्। सुशब्दात् गतिरनन्तरः
६।२।४९ इति प्राप्ते उपमाना दपि तृतीया कर्मणि
६।२।४८ इत्ययम् अपवादः। गतिकारकोपपदातित्येव, सुस्तुतं भवता।
"सुपीतम्()" इति। "घुमास्था"
६।४।६६ इत्यादिसूत्रेणेत्त्वम्()। "वृकावलुप्तम्()" इति। "लुप्लृच्छेदने" (धा।पा।१४३१)। "शशप्लुतम्()" इति।
"च्युङ् जयुङ्? प्रुङ्? प्लुङ्? गतौ" (धा।पा।९५५,९५६,९५७,९५८)। "सिंहविनर्दितम्()" इति। "नर्द शब्दे" (धा।पा।५६) सर्वत्र "कर्तृकरणे कृता बहलम्()"
२।१।३१ इति समासः। वृकैरिवावप्लुतमित्यादिर्विग्रहः॥