पूर्वम्: ६।२।१४७
अनन्तरम्: ६।२।१४९
 
सूत्रम्
इत्थम्भूतेन कृतमिति च॥ ६।२।१४८
काशिका-वृत्तिः
इत्थंभूतेन कृतम् इति च ६।२।१४९

इमं प्रकारमापन्न इत्थम्भूतः। इत्थंभूतेन कृतम् इत्येतस्मिन्नर्थे यः समसो वर्तते तत्र क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति। सुप्तप्रलपितम्। उन्मत्तप्रलपितम्। प्रमत्तगीतम्। विपन्नश्रुतम्। कृतम् इति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। तृतीया कर्मणि ६।२।४८ इत्यस्य अयम् अपवादः। भावे तु यदा प्रलपितादयस् तदा थाथादिस्वरेण एव सिद्धम् अन्तोदात्तत्वं भवति।
न्यासः
इत्थम्भूतेन कृतमिति च। , ६।२।१४८

इतिकरणोऽर्थनिर्देशार्थः। "आपन्नः" इति। प्राप्त इत्यर्थः। "सुप्तप्रलपितम्()" इति। "रप लप व्यक्तायां वाचि" (धा।पा।४०१,४०२), अत्र सुप्तत्वं प्रकारमापन्नम्(), तेन प्रलपितं कृतम्(), तत्र समासो वर्तते। "उन्मत्तप्रलपितम्()" इति। अत्राप्युन्मत्तत्वं प्रकारमापन्नं तेन प्रलपितं कृतम्()। "प्रमत्तगीतम्()" इति। अत्रापि प्रमत्तत्वं प्रकारमापन्नं तेन गीतं कृतम्()। "कै गै शब्दे" (धा।पा।९१६,९१७), "घुमास्था" ६।४।६६ इत्यादिसूत्रेणेत्त्वम्()। "विपन्नश्रुतम्()" इति। अत्रापि विपन्नत्वं प्रकारमापन्नं तेन श्रुतं कृतम्()। सर्वत्र "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। तत्र सुप्तशब्दः प्रत्ययस्वरेणान्तोदात्तः। प्रलपितशब्दो यदि कर्मणि निष्ठा, ततः "गतिरन्तरः" ६।२।४९ इति गतिस्वरेणाद्युदात्तः; अथ भावे, ततस्थाथादि ६।२।१४३ स्वरेणान्तोदात्तः। एवमुत्पन्नप्रकारा आपन्नविपन्नादिशब्दा अपि थाथादिस्वरेणै६।२।१४३ वान्तोदात्ताः। "गतिरनन्तरः"६।२।४९ इत्येतत्त्विह न प्रवर्तते; तत्र कर्मणीत्यनुवृत्तेः। इहाकर्मकाद्धातोः कर्मणि क्तप्रत्यस्यानुपपत्तेः। गीतश्रुतशब्दौ सुप्तशब्दवदन्तोदात्तौ। अथ कथमेतान्युदाहरणाध्युपलभ्यन्ते, य#आवतेत्यम्भूतेन कृतमित्येतस्मिन्नर्थ एतत्? कार्यमुच्यते, न चायमत्रार्थः सम्भवति, प्रलपितादीनामकृतार्थत्वात्()? प्रकृते प्रलपनादौ करोतेरप्रवृत्तेः। अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, न प्रलपनादौ। कस्मान्न प्रलपनादिकृतम्? इत्येतच्चोद्यमपाकर्त्तुमाह--"कृतमिति क्रियासामान्याम्()" इत्यादि। न हि करोतिरभूतप्रादुर्भाव एव वर्तते? किं तर्हि? क्रियासामान्येऽपि। तच्च क्रियासामान्यं प्रलपनादप्यस्ति। तेन तेन प्रलपनाद्यपि कृतं भवति। "तृतीया कर्मणीत्यस्य" इति। पूर्वपदप्रकृतिस्वरभाव इति। यदीत्यादिना यदा भावे निष्ठा, तदास्यानुपयोगं दर्शयति॥