पूर्वम्: ६।२।१४८
अनन्तरम्: ६।२।१५०
 
सूत्रम्
अनो भावकर्मवचनः॥ ६।२।१४९
काशिका-वृत्तिः
अनो भावकर्मवचनः ६।२।१५०

अनप्रत्ययान्तम् उत्तरपदं भाववचनं कर्मवचनं च कारकात् परमन्तोदात्तं भवति। ओदनभोजनं सुखम्। पयःपानम् सुखम्। चन्दनप्रियङ्गुकालेपनं सुखम्। कर्मवचनः राजभोजनाः शालयः। राजच्छादनानि वसांसि। कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् ३।३।११६ इत्ययं योगः उभयथा वर्ण्यते। कर्मण्युपपदे भावे ल्युड् भवति, कर्मण्यभिधेये ल्युड् भवति इति। तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अनः इति किं? हस्तहार्यमुदश्वित्। भावकर्मवचनः इति किम्? दन्तधावनम्। करणे ल्युट्। कारकातित्येव। निदर्शनम्। अवलेखनम्। सर्वेसु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति।
न्यासः
अनो भावकर्मवचनः। , ६।२।१४९

"कारकात्()" ६।२।१४७ इति वर्तते, "अनः" इति प्रत्ययग्रहणपरिभाषया (पु।प।वृ।४४) तदन्तस्य ग्रहणं विज्ञायते? इत्याह--"अनप्रत्ययान्तम्()" इत्यादि। "ओदनभोजनम्()" इत्यादौ सर्वत्र षष्ठीसमासः। षष्ठी तु कृद्योगलक्षणा कर्मणि। "राजभोजनाः" इत्यादौ तु कर्तरि। ओदनशब्दः "लघावन्ते" (फि।सू।२।४२) इत्याद्युदात्तः। भोजनमित्यादिकं तूत्तरपदं लित्स्वरेणाद्युदात्तम्()। पयःशब्दः "नब्विषयस्य" (फि।सू।२।४२) इत्याद्युदात्तः। भोजनमित्यादिकं तूत्तरपदं लित्स्वरेणाद्युदात्तम्()। पयःशब्दः "नब्विषयस्य" (फि।सू।२।२६) इत्याद्युदात्त एव। चन्दनप्रियङ्गुकाशब्दो द्वन्द्वः, तेन समासस्वरेणान्तोदात्तः। "लेपनम्()" इति। "लिप उपदाहे" (धा।पा।१४३३) [लिप उपदेहे--धा।पा।] इत्यस्यैवं रूपम्()। राजशब्द उक्तस्वरः। आच्छादनशब्दः "छद अपवारणे" (धा।पा।१९३५) इत्यस्य रूपम्()। "कर्मणि च येन" इत्यादिनैकेनैव योगेन भाववचनः कर्मवचनश्च ल्युङ्भवतीति दर्शयति। "हस्तहार्यम्()" इति। हस्तशब्दः "हसिमृग्रिणवामिदमिपूधुर्वीभ्यस्तन्()" (द।उ।६।७।;पं।उ।३।८६) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन्()--द।उ; हसिमृग्रिण्वामिदमलूपूधूर्विभ्यस्तन्()--पं।स।] इति स्तत्प्रत्ययान्तः, तेनाद्युदात्तः,। हार्यशब्दस्तु "ऋहलोण्र्यत्()" ३।१।१२४ इति ण्यदन्तस्तित्स्वरेणान्तस्वरितः। "दन्तधावनम्()" इति। "धावु गतिशुद्धोः" (धा।पा।६०१) इत्यस्मात्करणे ल्युट्। दन्तशब्दः "स्वाङ्गशिटाम्()" फि।सू।२।२९) इत्याद्युदात्तः। "निदर्शनम्()" इति। दृशेर्भावे ल्युट्()। "अवलेखनम्()" इति। अत्रापि लिखेः। "सर्वेषु प्रत्युदाहरणेषु" इत्यादि। एतेन "गतिकारकोपपदानां कृत्? ६।२।१३८ इत्यस्यायमपवाद इति दर्शयति॥