पूर्वम्: ६।२।१५२
अनन्तरम्: ६।२।१५४
 
सूत्रम्
मिश्रं चानुपसर्गमसंधौ॥ ६।२।१५३
काशिका-वृत्तिः
मिश्रं च अनुपसर्गम् असन्धौ ६।२।१५४

तृतीया इति वर्तते। मिश्र इत्येतदुत्तरपदम् अनुपसर्गं तृतीयान्तात् परम् अन्तोदात्तं भवति असन्धौ गम्यमाने। गुडमिश्राः। तिलमिश्राः। सर्पिर्मिश्राः। मिश्रम् इति किम्? गुडधानाः। अनुपसर्गम् इति किम्? गुडसंमिश्राः। इह अनुपसर्गग्रहणं ज्ञापकम् अन्यत्र मिश्रगहणे सोपसर्गग्रहणस्य। तेन मिश्रश्लक्ष्णैः इति सोपसर्गेण अपि मिश्रशब्देन तृतीयासमासो भवति। असन्धौ इति किम्? ब्राह्मणमिश्रो राजा। ब्राह्मणैः सह संहितः ऐकार्थ्याम् आपन्नः। सन्धिः इति हि पणबन्धेन ऐकार्थ्यम् उच्यते। केचित् पुनराहुः गृह्यमाणविशेषा प्रत्यासत्तिः सन्धिः इति। अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्तिविभागो गृह्यते इति ब्राह्मणमिश्रो रजा इति प्रत्युदाह्रियते। उदाहरणेष्वविभागापत्तिरेव गुडमिश्राः इति।
न्यासः
मिश्रं चानुपसर्गमसन्धौ। , ६।२।१५३

"गुडमिश्राः" इति। पूर्ववत्? "पूर्वसदृश" २।१।३० इत्यादिना समासः। गुडशब्दः "इगुपध" ३।१।१३५ इति "गुड रक्षायाम्()" (दा।पा।१३७०) इत्यस्मात्? कः, तेनान्तोदात्तः। "स्फायितञ्चि" (द।उ।८।३१) इत्यादिना रग्विधीयमानो बहुलवचनान्? मिशेरपि रग्भवति, तेन मित्रशब्दोऽन्तोदात्तः। तिलशब्दः "तृणधान्यानाञ्च द्व्यषाम्()" (फि।सू।२।२७) इत्याद्युदात्तः। प्रमिश्रम्(), सन्मिश्रमित्यस्य प्राप्नोति, अतस्तन्निवृत्तयेऽनुपसर्गग्रहणं क्रियते? इत्याह--"इह" इत्यादि। अथ वा--मिश्रशब्देन तृतीयासमास उच्यमानः कथं सोपसर्गे लभ्यते? इत्याह--"इह" इत्यादि। यदि तदिहानुपसर्गग्रहणं क्रियते, तह्र्रन्यत्र मिश्रशब्दग्रहणे सोपसर्गस्य ग्रहणं नास्तीतीहानुपसर्गग्रहणमनर्थकं स्यात्()। "तेन" इत्यादि। ज्ञापनस्य प्रयोजनं दर्शयति। "ब्राआहृणमिश्रो राजा" इति। "पूर्वसदृश"२।१।३० इत्यादिनैव समासः। "ब्राआहृणैः सह संहितः" इत्यनेन प्रत्युदाहरणे सन्धिं दर्शयति। "ऐकार्थमापन्नः" इति। अनन्तरोक्तमेवार्थं विस्पष्टीकरोति। एकः=अभिन्नोऽर्थो यस्य स एकार्थः, तद्भाव ऐकाथ्र्यम्()। तदापन्नः प्राप्त इत्यर्थः। कथं पुनज्र्ञायते--सन्धिशब्दस्यायमर्थः? इत्याह--"सन्धिः" इत्यादि। पणबन्धः=परिभाषणम्()--यदि मे भवानिदं कुर्यात्? ततोऽहमपि भवत इदं करिष्यामीत्येवञ्जातीयकम्()। तेन पणबन्धेन यदैकाथ्र्यं तत्? सन्धिरुच्यते। तस्मात्? प्रत्युदाहरणे सन्धौ सति ब्राआहृणैः सह संहित ऐकाथ्र्यमापन्नः--इत्येषोऽर्थो विज्ञायते। "केचित्? पुनराहुः" इत्यादि। गृह्रमाणो विशेषो यस्यां प्रत्यासत्तौ सा गृह्रमणविशेषा सन्धिरिति केचिदेवमाहुः, तत्रैव स्यात्()। एवंविधः सन्धिः प्रत्युदाहरणे नास्तीत्यत आह--"अत्र राज्ञो ब्राआहृणौ सह" इत्यादि। यद्यपि राज्ञा ब्राआहृणैः सह प्रत्यासत्तिः=देशसामीप्यमस्ति, तधापि सत्यामपि तस्यां मूर्तिविभागो मूर्तिविशेषो राज्ञो ब्राआहृणानाञ्च गृह्रत इत्येव। इतिकरणो हेतौ। यत एवम्(), तेन ब्राआहृणैः सह मिश्रो राजेति प्रतयुदाह्यियते। "उदाहणेष्वविभागापत्तिरेव" इति। एतेन गृडमिश्रा इत्यादौ तु सन्धेरभावं दर्शयति। यथा हि विलीनेन मिश्रा धानादयो भवन्ति, तथास्य गुडाः, तेषां च मूर्त्तिविभागो न गृह्रते; न तत्र सन्धेरविभागापत्तिरिति। न विभागोऽविभागः, तस्यापत्तिः=प्राप्तिः। यदा पणबन्धेनैकाथ्र्यं सन्धिस्तदोदहरणेषु तस्याभावो वेदितव्यः स हि परिभाषणविशेषणलक्षणः। न चासौ गुडमिश्रेषु धानास्वचेतनेषु विद्यते; तस्य प्राणिधर्मत्वात्()॥