पूर्वम्: ६।२।१५३
अनन्तरम्: ६।२।१५५
 
सूत्रम्
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः॥ ६।२।१५४
काशिका-वृत्तिः
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास् तद्धिताः ६।२।१५५

सम्पादि अर्ह हित अलम् इत्येवम् अर्था ये तद्धिताः तदन्तानि उत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराणि अन्तोदात्तानि भवन्ति। सम्पादिकर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अकार्णवेष्टकिकम्। अर्हं छेदमर्हति छैदिकः, न छैदिकः अच्छैदिकः। हित वत्सेभ्यो हितः वत्सीयः, न वर्सीयः अवर्सीयः। अलमर्थ सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकः असान्तापिकः। नञः इति किम्? गर्दभरथम् अर्हति, गार्दभरथिकः। विगार्दभरथिकः। गुणप्रतिषेधे इति किम्? गार्दभरथिकादन्यः अगार्दभरथिकः। गुण इति तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वाद्युच्यते। तत्प्रतिषेधो यत्र उच्यते समासे तत्र अयं विधिः कर्नवेष्टकाभ्यां। सम्पादि मुखम् इति। सम्पाद्यर्हहितालमर्थाः इति किम्? पाणिनीयम् अधीते पाणिनीयः, न पाणिनीयः अपाणिनीयः। तद्धिताः इति किम्? अन्यां वोढुमर्हति कन्यावोढा, न वोढा अवोढा। अर्हे कृत्यतृचश्च ३।३।१६९ इति तृच्।
न्यासः
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः। , ६।२।१५४

"सम्पाद्याद्यर्थास्तद्धिताः" इति। तद्धितप्रत्ययाः। तस्मात्? प्रत्ययग्रहणपरिभाषया (पु।प।वृ।४४) तदन्तविधिज्र्ञायते। "गुणप्रतषेधे" इति। यस्मिन्? वाक्यार्थे तद्धित उत्पद्यते स तद्धितस्य प्रवृत्तिनिमित्तं विधीयते--यथोक्तम्()--"उपकारि सिद्धमङ्गम्(), साध्योऽनुपकारकस्त्वङ्गी" इति। अङ्गी, गुण इति पर्यायावेतौ। गुणस्य प्रतिषेधो गुणप्रतिषेधः। एतचच नञो विशेषणम्(), गुणप्रतिषेधे चेन्नञ्वर्तत इत्यर्थः। "कार्णवेष्टकिकम्()" इति। कर्णवेष्टकभ्यां शोभत इत्यर्थः। "सम्पादिनि" ५।१।९८ इति "प्राग्वतेष्ठञ्()" ५।१।१८, न कर्णवेष्टकिकमकार्णवेष्टकिकमिति। अत्र कर्णवेष्टकाभ्यां सम्पद्यत इति वाक्यार्थे तद्धितान्तस्य प्रवृत्तिनिमित्तं यो गुणस्तस्य प्रतिषेन नञ्वर्तते। तत्? पुनः प्रवृत्तिनिमित्त्वम्()। "छैदिकः" इति। छेदमर्हतीति "आर्हादगोपुच्छ" ५।१।१९ इत्यादिनां ठक्()। "वत्सीयः" इति। "प्रक्क्रीताच्छः" ५।१।१। "सान्तापिकः" इति। "तस्मै प्रभवति सन्तापादिभ्यः" ५।१।१०० इति "प्राग्वतेष्ठञ्()" ५।१।१८। "विगार्दभरथिकः" इति। "तदर्हति" ५।१।६२ इत्यार्हीयष्ठञ्()। विशब्देन प्रादिसमासः। विशब्दोऽयमिह गार्दभरथिक इत्यस्य गुणप्रतिषेधे वर्तते। अत्र "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरत्रापि। नञ्यसति, अस्मिन्? प्रत्युदाहरणेऽपि यत्? पूर्वपदं प्रकृतिस्वरः प्रत्युदाहार्यः। "गार्दभरथिकदन्योऽगार्दभरथिकः" इति। अत्र गार्दभरथिकादन्यत्र नञ्वर्तते, न तु गार्दभरथिकत्वस्य प्रतिषेधे; पर्युदासत्वादस्य। "गुण इति तद्धितार्थप्रवृत्तिनिमित्तम्()" इत्यादि। तद्धितार्थः--कर्णवेष्टकाभ्यां सम्पादीत्येवमादिवाक्यार्थः, तत्र यत्? प्रवृत्तिनिमित्तं तद्धितान्तस्य शब्दस्य सम्पादित्वादि तत्? गुण इत्युच्यते। आदिशब्देन तदर्हत्वादेग्र्रहणम्()। तद्धितान्तमलमर्थञ्च परिग्रह्रते। "तत्प्रतिषेधः" इत्यादि। तस्य प्रतिषेधो यत्र समास उच्यते तत्रायं विधिः। कथं तसय गुणस्य प्रतिषेध उच्यते? इत्याह--"कर्णवेष्टकाभ्यां न सम्पादि मुखम्()" इति। एतेन सर्वेण प्रसज्यपरतिषेधेऽयं विधिः, न पर्युदास इति दर्शयन्नगार्दभरथिक इत्यतर प्रत्युदाहरणेऽस्य विधेरभावं दर्शयति। "पाणिनीयम्()" इति। "वृद्धाच्छः" (४।२।११४। "अपाणिनीयः" इति। अत्राध्येतर्यर्थे यस्तद्धितस्तदन्तमुत्तरपदम्()। न सम्पाद्यर्हहिताद्यमलमर्था ये तद्धितास्तदन्तम्()। "वोढा" इति। पूर्ववद्? धत्वढत्वष्टुत्वढलोपा विधेयाः, "सहिवहोरोदवर्णस्य" ६।३।१११ इत्योत्त्वम्()। "अवोढा" इति। अत्राहार्थो य कृदतः स उत्तरपदम्()। तेन तद्धितगरहणादन्तोदात्तत्वमुत्तरपदस्य न भवति। अव्ययपूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदप्रकृतस्वरापवादो योगः। एवमुत्तरेऽपि योगा द्रष्टव्याः। "प्राग्बहुव्रीहाविदमेतत्()" ६।२।१६१ इत्यादियोगात्()॥