पूर्वम्: ६।२।१६४
अनन्तरम्: ६।२।१६६
 
सूत्रम्
व्यवायिनोऽन्तरम्॥ ६।२।१६५
काशिका-वृत्तिः
व्यवायिनो ऽन्तरम् ६।२।१६६

व्यवायी व्यवधाता, तद्वाचिनः प्रमनतरं बहुव्रीहौ समासे अन्तोदात्तं भवति। वस्त्रान्तरः। पटान्तरः। कम्बलान्तरः। वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः। वस्त्रव्यवधायकः इत्यर्थः। व्यवायिनः इति किम्? आत्मान्तरः। आत्मा स्वभावो ऽन्तरो ऽन्यो यस्य असौ आत्मान्तरः।