पूर्वम्: ६।२।१६५
अनन्तरम्: ६।२।१६७
 
सूत्रम्
मुखं स्वाङ्गम्॥ ६।२।१६६
काशिका-वृत्तिः
मुखं स्वाङ्गं ६।२।१६७

मुखम् उत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासे ऽन्तोदात्तं भवति। गौरमुखः। भद्रमुखः। स्वाड्गम् इति किम्? दीर्घमुखा शाला। स्वाङ्गमद्रवादिलक्षणम् इह गृह्यते।
न्यासः
मुखं स्वाङ्गम्?। , ६।२।१६६

"गौरमुखः" इति। "गुरी उद्यमने" (धा।पा।१३९६) एतस्मादच्()। तदन्तदपि प्रज्ञादेरवृत्करणात्? "परज्ञादिभ्यश्च" ५।४।३८ इत्यण्(), तेन गौरोऽन्तोदात्तः। "उदि दृणातेरजलौ [दृणातेरजलौ--मुद्रितः पाठः] पूर्वपदान्त्यलोपश्च" (पं।उ।५।१९) इति प्रकृत्य "डित्? खनेर्मुट्? स चोदात्तः" (पं।उ।५।२०) इति खनेरजलावित्येतौ प्रत्ययौ भवतः, तौ च डितौ, मुट्? चोदात्तः। तेन मुखशब्द आद्युदात्तः। "भदरमुखः" इति। "ऋजेन्द्र" (द।उ।८।४६) इत्यादिसूत्रेण भद्रशब्दो व्युत्पाद्यते। तेन भद्र इत्यन्तोदात्तः। "दीर्घमुखा शला" इति। मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते। "स्वाङ्गमद्रवलक्षणमिह गृह्रते" इति "अद्रवं मूर्त्तिमत्? स्वाङ्गम्()" (का।वृ।४।१।५४) इत्यादि यत्परिभाषितं स्वाङ्गमद्रवादिलक्षणं तदिह गृह्रते। तेन दीर्घमुखा शालेत्यत्र न भवतीति भावः॥