पूर्वम्: ६।२।१६८
अनन्तरम्: ६।२।१७०
 
सूत्रम्
जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः॥ ६।२।१६९
काशिका-वृत्तिः
जातिकालसुखाऽदिभ्यो ऽनाच्छादनात् क्तो ऽकृतमितप्रतिपन्नाः ६।२।१७०

जातिवाचिनः आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासे ऽन्तोदात्तं भवति। सारङ्गजग्धः। पलाण्डुभक्षितः। सुरापीतः। काल मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः। सुखादिभ्यः सुखजातः। दुःखजातः। तृप्रजातः। जात्यादिभ्यः इति किम्? पुत्रजातः। आहिताग्न्यादित्वात् परनिपातः। अनाच्छादनातिति किम्? वस्त्रच्छन्नः। वसनच्छन्नः। अकृतमितप्रतिपन्नाः इति किम्? कुण्डकृतः। कुण्डमितः। कुण्डप्रतिपन्नः। एतेसु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्येव अस्मादेव ज्ञापकात्। प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः। सुखादयस्तृतीये ऽध्याये पठ्यन्ते।
न्यासः
जातिकालसुखादिभ्योऽनाच्छादनात्? क्तोऽकृतमितप्रतिपन्नाः। , ६।२।१६९

"शाङ्गरजग्धः" इति। गुणातेरितेर्वा "शमि धातोः संज्ञायाम्()" (३।२।१४) इत्यच्? शङ्गरः, ततोऽपि प्रज्ञादेराकृतिगणत्वादण्()। तेन शाङ्गरशब्दोऽन्तोदात्तः। "पलाण्डुभक्षितः" इति। "पल गतौ" (धा।पा।८३९) "उणादयो बहुलम्()" ३।३।१ इत्याण्डुप्रत्ययः तेन पलाण्डुशब्दो मध्योदात्तः। "सुरपीतः" इति। "सुसूधागुधिभ्यः क्रन्()" (द।उ।य८।४२) इति सुराशब्द आद्युदात्तः। "मासजातः" इति। "मसी परिमाणे" (धा।पा।१२२१) ["परिणामे"धा।पा।] अस्माद्घञ्(), तेन मास आद्युदात्तः। "संवत्सरजातः" इति। "अशेः सरः" (द।उ।८।५०) ["सरन्()"--द।उ।प।उ। (३।७०)] इत्यधिकृत्य "वसेश्च" (द।उ।८।५१) "सम्पूर्वाच्चित्()" (द।उ।८।५२) इति। तेन संवत्सरोऽन्तोदात्तः। "द्व्यहजातः। त्र्यहजातः" इति। द्वित्रिशब्दावन्तोदाततावित्युकतम्()। "सुखजातः" इति। खनतेः सुपूर्वात्? "अन्येष्वपि दृश्यते" ३।२।१०१ इति डः। तेन सुखशब्दोऽन्तोदात्तः। एवं दृःखशब्दोऽपि वेदितव्यः। तेन तृप्रशब्दोऽन्तोदात्तः। "कृच्छ्रजातः" इति। "कृतेच्छः क्रू च" (द।उ।८।३८,पं।उ।२।२१) ["कृते च्छक्? च--द।उ। "कृतेश्छक्रू च"--पं।उ।] इति कृच्छ्रशब्दोऽन्तोदात्तः। "असु क्षेणपे" (धा।पा।१२०९) अस्माद्? "बहुलमन्यत्र#आऽपि" (द।उ।८।४०) इति रक्(), तेनास्लमन्तोदात्तम्()। "वृ()तृ()वदहनिकमिकषिब्यः सः" (द।उ।९।२१) [कषियुमुचिभ्यः--द।उ।] इति बहुलवचनादमेरपि भवति। अंसो वृषादित्वादाद्युदात्तः। "अलकम्()" इति। अलतेः "पुंसि संज्ञायां घः प्रायेण" ३।३।११८, ततः कन्निति कन्नन्तोऽप्लकशब्दः। तेनाद्युदात्तः। "कृ()वृ()दारिभ्य उनन्()" (पं।उ।३।५३), तेन करुणशब्द आद्युदात्तः। "रञ्जेः क्वुन्()" (()) इति बहुलवचनात्? कृपेरपि भवति। तेन कृपणमाद्युदात्तम्()। "सोढः" इति क्तान्तम्()। तेनैतदन्तोदात्तम्()। पूर्ववद्घत्वढत्वादयः कत्र्तव्याः। "प्रतीयम्()" इति। प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः। "ऋक्पूः" ५।४।७४ इत्यादिनाऽकारः समासान्तः, "द्व्यन्तरुपसर्गेभ्योऽपि ईत्()" ६।३।९६ इतीत्त्वम्()। "पुत्रजातः" इति। अत्र बहुव्रीहिस्वर एव भवति। "अमिचिमिदिशसिभ्यः क्त्रः" (द।उ।८।८६) "पुवो ह्यस्वश्च" (पं।३।४।१६४) तेन पुत्रशब्दोऽन्तोदात्तः। कथं पुनर्जातशब्दस्य परनिपातः, यावता "निष्ठा" (२।२।३६) इति पूर्वनिपातेनात्र भवितव्यम्()? इत्यत आह--"आहिताग्न्यादित्वात्()" इत्यादि। पुत्रजातशब्दोऽयमाहितागन्यादिषु षठ()ते, तेन "वाऽ‌ऽहितागन्यादिषु" २।२।३७ इति जातादिशब्दसय परनिपातः। "वस्त्रच्छन्नः" इति। वस्त्रम्()ाच्छादनम्(), आच्छाद्यतेऽनेनेति कृत्वा। वस्त्रशब्द उक्तस्वरः। छन्नशब्दः "छद अपवारणे" (धा।पा।१८३३) इत्यस्य ण्यन्तस्य निष्ठायां "वा दन्तशान्त" ७।२।२७ इत्यादिना निपातितः। "वसनच्छन्नः" इति। वसेराच्छादनार्थाल्ल्युट्()। तेन वसनमाद्युदात्तम्()। "कुण्डलकृतः" इति। कुण्डशब्दोऽयं "नब्विषयस्य" (फि।सू।२।२६) इत्याद्युदात्तः। "कुण्डमितः" इति। "माङ् माने" (धा।पा।११४२), "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वम्()। अथ कथमेतेषु बहुव्रीहिषु "निष्ठा" (२।२।३६) इत्यनेन निष्ठान्तस्य पर्वनिपातो न भवति? इत्याह--"एतेषु" इत्यादि। यस्मादेतत्? कृतम्(), तस्माज्जात्यादिभ्यः परस्यान्तोदात्तत्वबिधानाम्()। एतस्मादेव ज्ञापकान्निष्ठान्तस्य पूर्वनिपातो न भवति; अन्यथा ह्रेतदन्तोदात्तत्वविदानं नोपपद्यते॥