पूर्वम्: ६।२।१७०
अनन्तरम्: ६।२।१७२
 
सूत्रम्
नञ्सुभ्याम्॥ ६।२।१७१
काशिका-वृत्तिः
नञ्सुभ्याम् ६।२।१७२

नञ्सुभ्यां परम् उत्तरपदं बहुव्रीहौ समासे ऽन्तोदात्तं भवति। अयवो देशः। अव्रीहिः। अमाषः। सुयवः। सुव्रीहिः। सुमाषः। समासस्य एतदन्तोदात्तत्वम् इष्यते। समासान्ताश्च अवयवा भवन्ति इति अनृचः, बह्वृचः इत्यत्र कृते समासान्ते ऽन्तोदात्तत्वं भवति।
न्यासः
नञ्सुभ्याम्?। , ६।२।१७१

"अयवो देशः" इत्यादि। यवव्रीहिमाषाः "तृणधान्यानाञ्च द्व्यषाम्()" (फि।सू।२।२७) इत्याद्युदात्तः। "समासस्य" इत्यादि। इह समासः प्रकृत उत्तरपदं च। तत्र यद्युत्तरपदस्यैतदन्तोदात्तत्वं स्यात्? अनृचो बह्()वृच इत्यत्र "ऋक्पूरब्धूः" ५।४।७४ इत्यादिनाकारे समासान्ते कृते ततः पूर्वस्य ऋक्शब्दस्योत्तरपदस्यान्तोदात्तत्वं प्रसज्येत। समासस्य त्वन्तोदात्तत्वं विधीयमानमकारस्यैव भवति; तस्य समासावयवत्वात्()। समासावयवत्वं तु "समासान्ताः" ५।४।६८ इत्याधिकृत्य विधानात्()। तस्मात्? समासावयवस्यैतदन्तोदात्तत्वमिष्यते। कथं पुनरिष्यमाणमुपि लभ्यते? "कपि पूर्वम्()" ६।२।१७२ इत्यत्र पूर्वग्रहणात्()। तद्धि पूर्वग्रहणमनेन समास्सयान्तोदात्तत्वं विधीयमानं समासावयवस्य कप एव मा भूदित्येवमर्थं क्रियते। यदि तूभयपदस्यैतदन्तोदात्तत्वं स्यात्(), तदान्तरेणापि कपिपूर्वग्रहणं कपिपूर्वस्योत्तरपदस्य सात्(), न कपः; न हि कबुत्तरपदस्यावयवः, ततश्च पूर्वग्रहणनर्थकम्()। इदं तावत्()--"समासान्ताःप्रत्ययाः समासस्यैवावयवाः, नोत्तरपदस्य" इत्येतद्दर्शनमङ्गीकृत्योक्तम्()। इदानीं "उत्तरपदस्यापि तेऽवयवाः, इत्येतद्दर्शनमाश्रित्याह--"समासान्ताश्च" इत्यादि। उत्तरपदं चेति शेषः। एतदन्तोदात्तत्वमिष्यत इति प्रकृतेन सम्बन्धः। इतिकरणो हेतौ। अथ वा--उत्तरपदस्यैवैतदन्तोदात्तत्वमिष्यते। कुतः? समासान्ता उत्तरपदावयवा भवन्तीत्यतो हेतोः। तेनानुचः बह्()वृच इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति, तच्चोत्तरपदस्य भवेत्()। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। सान्तेऽन्तोदात्तत्वं भवति, तच्चोततरपदसय भवेत्()। तस्यैव समासान्तस्य भवति, तस्योत्तरपदावयवत्वादिति भावः। यदि हि समासान्ता उत्तरपदावयवा न स्युः, तत उत्तरपदावयवस्यन्तोदात्तत्वं विधीयमानं समासान्तस्य न स्यात्()। उत्तरपदावयवत्वे हि समासान्तानां तस्यैव समासान्तस्य भवति। कथं पुनः समासान्तानामुत्तरपदावयवत्वम्()? समासार्थादुत्तरपदात्? पूर्वं समासान्तं विधाय पश्चात्? तदन्तेन समासविधानात्()। तथा हि "न कपि" ७।४।१४ इत्यत्र वक्ष्यति ""गोस्त्रियोरुपसर्जनस्य" १।२।४८ इतययमपि ह्यसवः कपि न भवति। समासार्थे ह्रुत्तरपदे कपि कृते पश्चात्? कबन्तेन सह समासेन भवितव्यममिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति" इति। समासान्तप्रत्ययान्तेन च पदेन यदि समासः क्रियते, तदा "तन्मध्ये पतितास्तद्ग्रहणेन गृह्रन्ते" (व्या।प।२१) इति समासान्तः प्रत्ययः उत्तरपदावयवा भवन्ति। यद्यवम्(), समासावयवत्वं तेषां नोपपद्यते? नैतदस्ति; अवयवावयवोऽपि हि समुदायावयवो भवति, तथा हि--"देवदत्तायाः सर्वेऽवयवा अलङ्क्रियन्ताम्()" इत्युक्ते देवदत्तावयकस्य येऽवयवा अङ्गुल्यादयस्येऽप्यलङ्क्तियन्ते॥