पूर्वम्: ६।२।४४
अनन्तरम्: ६।२।४६
 
सूत्रम्
क्ते च॥ ६।२।४५
काशिका-वृत्तिः
क्ते च ६।२।४५

क्तान्ते च उत्तरपदे चतुर्थ्यन्तं प्रकृतिस्वरं भवति। गोहितम्। अश्वहितम्। मनुष्यहितम्। गोरक्षितम्। अश्वरक्षितम्। वनं तापसरक्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दो ऽन्तस्वरितः। परिशिष्ट पूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितम् इति सम्प्रदाने चतुर्थी।
न्यासः
क्ते च। , ६।२।४५

"अ()आशब्द आद्युदात्तः" इति। क्वन्परत्ययान्तत्वत्()। "मनुष्यशब्दोऽन्तस्वरितः" इति। "मनोर्धातावञ्यतौ षुक्च" ४।१।१६१ इति यत्प्रत्ययान्तत्वात्()। "परिशिष्टमन्तोदात्तम्()" इति। तत्? पुनर्गोशब्दः, तापसशब्दश्च। तत्र "गमेर्डोस्()" (द।उ।२।११) [गोमर्डोः--द।उ; पं।उ।] इति डोस्प्रत्ययान्तत्वाद्गोशब्दः प्रत्ययस्वरेणान्तोदात्तः। तापसशब्दोऽपयण्प्रत्ययान्तत्वात्()। स हि "तपःसहरुआआभ्यां विनीनी" (५।२।१०२) "अण्? च" ५।२।१०२ इत्यण्प्रत्ययान्तो व्युत्पाद्यते। अथ "गोरक्षितम्()" इति कथमिदमस्योदाहरणम्(), यावता गोभ्यो रक्षिमिति तादर्थ्ये चतुर्थी, तत्र हि योगत उत्तरपदेन भवितवयम्()? इत्यत आह--"गोभ्यो रक्षितम्()" इत्यादि। न ह्रत्र गवार्थं रक्षित इत्येषोऽर्थो विवक्षितः, किं तर्हि? गोभ्यो रक्षितं दीयते इत्येतदध्याहार्यम्()। तस्मात्? सम्प्रदान एषा चतुर्थी, तत्? कुतस्तादथ्र्यम्()!॥