पूर्वम्: ६।२।८०
अनन्तरम्: ६।२।८२
 
सूत्रम्
युक्तारोह्यादयश्च॥ ६।२।८१
काशिका-वृत्तिः
युक्तारोह्यादयश् च ६।२।८१

युक्तारोह्यादयः समासाः आद्युदात्ता भवन्ति। युक्तारोही। आगतरोही। आगतयोधी। आगतवञ्ची। आगतनर्दी। आगतप्रहारी। एते णिनन्ताः णिनि ६।२।७९ इत्यस्य एव उदाहरनार्थं पथ्यन्ते पुर्वोत्तरपदनियमार्था इति केचित्। इह मा भूत्, वृक्षारोहि, युक्ताध्यायी इति। आगतमत्स्या। क्षीरहोता। भगिनीभर्ता। याजकादित्वात् षष्ठीसमासावेतौ। ग्रामगोधुक्। अश्वत्रिरात्रः। गर्गत्रिरात्रः। व्युष्टत्रिरात्रः। शणपादः। समपादः। षष्ठीसमासा एते। एकशितिपत्। एकः शितिः पादो ऽस्य इति त्रिपदो बहुव्रीहिः। तत्र एकशितिशब्दस् तद्धितार्थोत्तरपदः इति तत्पुरुषसंज्ञः, तस्य निमित्तिस्वरबलीयस्त्वादन्तोदात्तत्वं प्राप्तम् इत्याद्युदात्तत्वं विधीयते। एवम् अपि न अर्थ एतेन, इगन्त द्विगौ ६।२।२९ इति सिद्धत्वात्? एवं तर्हि ज्ञापनार्थम्। एतज् ज्ञापयति शित्यन्तस्य उत्तरपदे द्विगुस्वरो न भवति इति। तेन द्विशितिपादित्यत्र तिशब्द उदात्तो भवति। निमित्तिस्वरबलीयस्त्वस्य अप्येकशितिपात्स्वरवचनम् एव ज्ञापकं वर्णयन्ति। पात्रेसमितादयश्च युक्तारोह्यादयस् ततस् ते ऽप्याद्युदात्ता भवन्ति।
न्यासः
प्राचां क्रीडायाम्?। , ६।२।८१

"प्राग्देशवर्त्तिनां या क्रीडा" इति। एतेन प्राग्ग्रहणमिह न विभाषार्थम्(), किञ्च क्रियाविशेषणमिति दर्शयति। "उद्दालक्पुष्पभञ्जिका" इत्यादि। उद्यालकपुष्पादिषु कृद्योगे कर्मणि षष्ठी। "जीवपुत्रप्रचायिका" इति। अत्रापि प्रपूर्वाच्छिनोतेः संज्ञायां ण्वुल्()। पूर्ववत्? समासः। लित्स्वरेणोत्तरपदं मध्योदात्तम्()। "तव पुष्पप्रचायिका" इति। "षष्ठी" २।२।८ इत्यनेनैवात्र समासः। चित्स्वरेरेणोत्तरपदं मद्योदात्तम्()॥
न्यासः
युक्तारोह्रादयश्च। , ६।२।८१

"युक्तारोहि" इत्यादिषु यत्र कृदन्तमुत्तरपदं तत्र कृत्स्वरापवादो योगः। अन्येषु तु समासस्वरापवादः। युक्तारोहीत्येवमादिषु आगतप्रहारीत्येवम्यर्यन्तेषु "रुह जन्मनि" (धा।पा।८५९), [रुह बाजजन्मनि प्रादुर्भावे च--धा।पा।] "युध सम्प्रहारे (धा।पा।११७३), "वञ्चु प्रलम्भने" (धा।पा।१७०३), "टुणदि समृद्धौ" (धा।पा।६७) [टु नदि समृद्धौ--धा।पा।] "ह्मञ्? हरणे" (धा।पा।८९९) प्रपूर्वः--इत्येभ्यो धातुभ्यो यथायोगं युक्तागतपूर्वभ्यः "सुप्यजातौ णिनिस्ताच्छील्ये" ३।२।७८ इति णिनिः। यद्येते णिन्यन्तास्तत्? किमर्थमिह पठ()न्ते यावता "णिनि" (६।२।७९) इत्यनेनैव सिद्धम्()? इत्यत आह--"णिनीत्यस्यैवोदाहरणार्थं पठ()न्ते" इति। "पूर्वोत्तरपद" इत्यादिना केषांचिन्मतेन तेषामिह पाठस्य प्रयोजनान्तरं दर्शयति। पूर्वोत्तरपदयोनिर्यमोऽर्थो येषां ते तथोक्ताः। यत्र युक्तादीन्येव पूर्वपदान्यारोह्रादीन्येव चोत्तरपदानि तत्रैव यथा स्यादिति, इह मा भूत्()--ध्वाङ्क्षारोही, वृक्षारोहीति, अत्रान्यत्पूर्वपदम्()। युक्ताध्यायीत्यत्रान्यदुत्तरपदम्()। "इङ्? अध्ययने" (धा।पा।१०४६) इत्यस्माण्णिनिः। "आगतमतस्या" इति। विशेषणसमासः। "क्षीरहोता" इति। क्षीरस्य होता। अस्मादेव निपातनात्? षष्ठीसमासः। याजकादित्वाद्वा (२।२।९) "हु" इत्येतस्मात्? तृच्()। "भगिनीभर्ता" इति। अयमपि पूर्ववत्? षष्ठीसमासः। भृञस्तृच्()। "ग्रामगोधुक्()" इति। दुहेः क्विप्(), "दादेर्धातोर्घः" ८।२।३२। "एकाचो बशो भष्()" ८।२।३७ इत्यादिना दकारस्य धकारः, "झलां जशोऽन्ते" ८।२।३९ इति घकारस्य गकारः, तस्य "वाऽवसाने" ८।४।५५ इति चत्र्वम्()--ककारः। "त्रिरात्रः" इति। तिरुआओ रात्रस्यः समाह्मताः इति समाहारे द्विगुः। "अहःसर्वैकदेश" (५।४।८७) इत्यादिनाऽच्? समासान्तः। "एकशितिपात्()" इति। "पादस्य लोपोऽहस्त्यादिभ्यः" ५।४।१३८ इत्यकारलोपः। ननु चैकशब्दोऽयम्? "इष्भीकापाशल्पतिमर्चिभ्यः कन्()" (द।उ।३।२१) इति कन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। तत्रैकः शितिः पादोऽस्येति बहुव्रीहिः। तत्र कृते प्रकृतिभावेनैव सिद्धमिहाद्युदात्तत्वम्(), ततो नार्थ इहास्य पाठेन? इत्यत आह--"एकः शितिः पादोऽस्य" इति। द्विपदे बहुव्रीहावेष दोषः स्यात्(), न चायं द्विपदः, किं तर्हि? त्रिपदः। अत्र पादशब्द उत्तरपदे परतः "तद्धितार्थोत्तरपद" २।१।५० इति पूर्वपदयोरेकशितिशब्दस्यान्तोदात्तत्वं प्राप्तमिति "समासस्य" ६।१।२१७ इत्यनेन। इतिकरणो हेतौ। यस्मात्? तस्यान्तोदात्तत्वं प्राप्तं तस्मात्? तस्याद्युदात्तत्वं विधीयते। ततो नापार्थक एकशितिपाच्छब्दस्य पाठ इत्यभिप्रायः। कस्मात्? पुनस्तस्यान्तोदात्तत्वं प्राप्नोति, बहुव्रीहिस्वरेणैव हि परत्वादन्तोदात्तत्वं बाधित्वा युक्तं भवितुम्()? इत्याह--"निमित्तस्वरबलीयस्त्वात्()" इति। निमित्तपदं द्विगोस्त्रिपदबहुव्रीहिः। तत्र हि कृते द्विगुत्तरपदे परतः पूर्वपदयोर्भवति। यच्च यस्मिन्? सति भवति तत्? तस्य निमित्तम्(), तस्य निमित्तस्य बहुव्रीहिस्वरो निमित्तस्वरः, तस्माद्बलीयस्त्वं निमित्तस्वरबलीयस्त्वम्()। "पञ्चमी" २।१।३६ इति योगविभागात समासः। तदेतदुक्तं भवति--तस्माद्बहुव्रीहिस्वरात्? समासान्तोदत्तत्वमस्य बलीयस्त्वम्(), तस्मात्? तत्? प्राप्नोतीति। बलीयस्त्वं तु तस्य सतिशिष्टत्वात्()। तद्धि बहुव्रीहोराद्युदात्तत्वे सति भवति। तस्मात्? सतिशिष्टस्य बलीयस्त्वमुक्तम्()। वक्ष्यमामज्ञापकाद्वा निमित्तस्वरबलीयस्त्वम्()। "एवमपि" इत्यादि। एवमपि त्रिपदे बहुव्रीहौ कल्प्यमानेऽपि। "नार्थ एतेन" इति। एकशितिपाच्छब्देनेह भवति नार्थः। कस्मात्()? इत्याह--"इगन्त" इत्यादि। त्रिपदे हि बहुव्रीहावेकशितिशब्दयोरुत्तरपदे यः समासः "संख्यापूर्वो द्विगुः" २।१।५१ इति द्विगुसंज्ञः स इगन्तश्च भवति। ततश्च "इगन्त--द्विगौ" ६।२।२९ इत्याद्युदात्तत्वं सिद्धम्(), ततो नार्थ एतेन। "एवं तर्हीत्यादिनैकशितिपाच्छब्दपाठस्य ज्ञापकत्वं दर्शयति। किं पुनस्तज्ज्ञापयति? इत्याह--"एतत्()" इत्यादि। "तेन" इत्यादिना प्रयोजनं दर्शयति। यद्येषोऽर्थो न ज्ञाप्यते, तेन द्वौ शिति पादावस्येति त्रिपदे बहुव्रीहौ कृते, तत्र चोत्तरपदे परतः पूर्वपदयोर्द्विगौ सति "इगन्त--द्विगौ" ६।२।२९ इति पूर्वपदप्रकृतस्वरे कृते तिशब्दो द्विशितिपादित्यत्रोदात्तः स्यात्()। अस्मिस्त्वर्ये ज्ञापिते "इगन्त--द्विगौ" ६।२।२९ इत्येष स्वरो न भवति। त()स्मश्चासति समासस्वरेण तिशब्द उदात्तो भवति, निमित्तस्वरबलीयस्त्वं न स्यात्()। ततक्च त्रिपदे हि बहुव्रीहौ परत्वात्? समासस्वरं बाधित्वा बहुव्रीहिस्वर एव भवति, ततस्तेनैव सिद्धत्वादेकशितिपाच्छब्दस्येह पाठो न क्रियेत, कृतश्च। तस्मात्? स एव ज्ञापयति--निमित्तस्वरबलीयस्त्वमिति॥