पूर्वम्: ६।२।१९८
अनन्तरम्: ६।३।२
 
सूत्रम्
अलुगुत्तरपदे॥ ६।३।१
काशिका-वृत्तिः
अलुगुत्तरपदे ६।३।१

अलुकिति च, उत्तरपदे इति च एतदधिकृतम् वेदितव्यम्। यदिति ऊर्ध्वम् अनुक्रमिष्यामो ऽलुकुत्तरपदे इत्येवं तद् वेदितव्यम्। वक्ष्यति
न्यासः
अलुगुत्तरपदे। , ६।३।१

"स्तोकान्मुक्तः, अल्पान्मुक्तः" इति। "करणे स्तोकाल्पकृचछ्रकतिपयस्यासत्ववचनस्य" २।३।३३ ["करणे च"--पा।सू।] इति पञ्चमी, "स्तोकान्तिकदुरार्थकृच्छ्राणि क्तेन" २।१।३८ इति समासः। ननु च "वनं समासे" ६।२।१७७ इत्यतः समासगरहणमनुवर्तिष्यते, समासे च नियतं सन्निहितमुत्तरपदम्(), अतोऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदं लभ्यत इत्यभिप्रायेणाह--"उत्तरपदमिति किम्()" इति। "निःस्तोकः" इति। "निरादयः क्रान्ताद्यर्थे पञ्चम्या" (वा।९४) इति प्रादिसमासः। एवं मन्यते--असत्युत्तरपदग्रहणे समासे ये स्तोकादय उत्तरपदभूताः पूर्वपदभूता वा, तेभ्य उत्तरस्याः पञ्चभ्या अलुग्भवतीत्येतावन्मात्रं लभ्यते, न तूत्तरपदे परतो ये स्तीकादय इत्येष विशेषः। ततश्च निःस्तोक इत्यत्राप्यलुक्? स्यात्()। भवति ह्रत्रापि समासवर्तिनः स्तोकादेः शब्दादुत्तरा पञ्चमीति। नन्वेवमपि न कत्र्तव्येमेवोत्तरपदग्रहणम्(), लक्षणप्रतिपदोक्तपरिभाषया(व्या।प।३) प्रतिपदं "स्तोकादिभ्यः करणे च" २।३।३३ इत्यादिसूत्रेण या पञ्चमी विहिता, तस्या एव ग्रहणम्()। नतु "अपादाने पञ्चमी" २।३।२८ इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता, तस्या एव ग्रहणम्()। न तु "अपादाने पञ्चमी" २।३।२८ इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता त्सयाः। अवश्यञ्च सलक्षमप्रतिपदोक्तपरिभाषाऽश्रयितव्याः; अन्यथा हि स्तोकादपेतः स्तोकापेत इत्यत्राप्यलुक्(), स्यात्(), एवं सति निःस्तोक इत्यत्रालुक्प्राप्तिरेव नास्ति, न ह्रत्र स्तोकशब्दात्? प्रतिपदिविहिता पञ्चमी, किं तर्हि? सामान्यलक्षणविहिता। तत किं तन्निवृत्त्यर्थेनोत्तरपदगरहणेन? इत्याह--"अन्यार्थम्()" इत्यादि। आनङाद्यर्थमिदमुत्तरपदगरहणम्()। असति चैतस्मिन्? "आनङ् ऋतो द्वन्द्वे" ६।३।२४ इत्यानङ्, "होतापातृभ्याम्()" इत्यत्र यथा पूर्वपदस्य भवति, तथोत्तरपदस्यापि स्यात्()। तथा "इकोह्यस्बोऽङयो गालवसव" ६।३।६० इति ह्यस्वो यथेह भवति--"ग्रामणिपुत्रः" इति, तथेहापि स्यात्()--"ग्रामणीः" इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्(), तदा "ह्यस्वो यथेह भवति--"ग्रामणिपुत्रः" इति, तथेहापि स्यात्()--"ग्रामणीः" इति। ननु यद्यनुत्तरपदेऽपि ह्यस्वः स्यात्(), तदा "ह्यस्वो यथेह भवति--"ग्रामणिपुत्रः" इति, तथेहापि स्यात्()--"ग्रामणीः" इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्(), तदा "ह्यस्वो नपुंसके प्रातिपदिकस्य" इति, तथेहापि स्यात्(), "ग्रामणीः" इति। ननु यद्यनुत्तरपदेऽपि ह्यस्वः स्यात्(), तदा "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति वचनमनर्थकं स्यात्(); अनेनैव सिद्धत्वात्()? नानर्थकम्(); अनिगन्तार्थत्वान्नित्यार्थत्वाच्च। किञ्च, असत्युत्तरपदग्रहणे कृतम्()। यद्येवम्(), यदर्थमिदं तद्विधावेव कत्र्तव्यम्(), इह किमर्थ क्रियते? इत्याह--"इहाप्यलुको निवृत्तिम्()" इत्यादि। इतिकरणो हेतौ। अन्यार्थं तावदवश्यमिदमुत्तरग्रहणम्()। इह तु क्रियमाणे सत्ययं विशेषः--निःस्तोक इत्यतराप्यलुग्? निवृत्तः क्रियते। तेन लक्षणप्रतिपदोक्तपरिभाषा(व्य।प।३) नाश्रयितव्या भवति। अथ कुतः प्रातिमावधिकारौ? इत्याह--"अलुगधिकारः" इत्यादि। विधेयान्तरं विधेयान्तरस्य निवर्तकं भवतीत्यानङ्? विधीयमान उततरपदेऽलुकं निवत्र्तयति, तस्मात्()--"अलगधिकारः प्रागानङः"। उत्तरपदाधिकारः "प्रागङ्गाधिकारात्()" इति। उत्तरपदे परतो यत्? कार्यं वीधीयते तस्य सम्बन्धिशब्दत्वात्? पूर्वपदं विधिभाक्()। अतोऽङ्गं विधिभाक्त्वेन विज्ञायमानमुत्तरपदाधिकारं निवर्तयति। अङ्गस्य हि यत्? कार्यं तत्? प्रत्यये परतो विधीयते, नोत्तरपदे। न ह्रुत्तरपदेऽङ्गसंज्ञा भवति। अथ वा--उत्तरपद इति सप्तमीनिर्देशादनन्तर एवोत्तरपदे भवितव्यमानङा। यदि चात्र विभक्तेरलुक्? स्यात्? तदा व्यवधानादानन्तर्य न स्यात्()। न च व्यवधानेऽपि वचनसामथ्र्यादानङ्स्यादिति शक्यते परिकल्पयितुम्()। एवं हि "तस्मिन्निति निर्दिष्टे पूर्वस्य" १।१।६५ इति निर्दिष्टग्रहणमानन्तर्यार्थ बाध्येत, अनिष्टं च रूपमापद्येत। न चानिष्टार्था शास्त्रे प्रक्लृपतिर्युक्ता। तस्मादलुगधिकारः प्रागानङः। अङ्गस्य प्रत्यये परतोऽभावादुत्तरपदे परतस्तन्न भवत्येव, अत उत्तरपदाधिकारः प्रागङ्गाधिकारात्()॥
बाल-मनोरमा
अलुगुत्तरपदे ९४३, ६।३।१

अथाऽलुक्समासो निरूप्यते--अलुगुत्तरपदे। नाऽयं विधिः, "राजपुरुष" इत्यादावतिप्रसङ्गात्, "पञ्चम्याः स्तोकादिभ्यः" इत्याद्यारम्भाच्च। किंतु पदद्वयमधिक्रियते। अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति। "आनङृतः" इत्यतः प्रागित्यर्थः। उत्तरपदेति। षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम्। #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः। अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम्।

तत्त्व-बोधिनी
अलुगुत्तरपदे ८१६, ६।३।१

अलुक्सयादिति। प्रसज्यप्रतिषेधोऽयम्। सुपो धात्वित्यादिना प्राप्तो लुङ्ग भवतीत्यर्थः।