पूर्वम्: ६।३।१०४
अनन्तरम्: ६।३।१०६
 
सूत्रम्
विभाषा पुरुषे॥ ६।३।१०५
काशिका-वृत्तिः
विभाषा पुरुषे ६।३।१०६

पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययम् आदेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत् पुरुषः कापुरुषः।
न्यासः
विभाषा पुरुषे। , ६।३।१०५

"अप्राप्ते विभाषेऽयम्()" इति। ईषदर्थस्य निवृत्तत्वात्()। ननु चानीषदर्थे केनचिदप्राप्ते, ईषदर्थे पूर्वेण प्राप्त इत्युभयत्र विभाषेऽयं युक्तेत्याह--"ईषदर्थे तु पूर्वविप्रतिषेधेन" इत्यादि। "ईषदर्थे च" ६।३।१०४ इत्यस्यावकाश ईषन्मधुरं कामधुम्(), "विभाषा पुरुषे" इत्यस्यावकाशः--कुत्सितः पुरुषः कापुरुष इति; इह चोभयं प्राप्नोति--ईषत्पुरुषः कापुरुष इति। अत्रेषदर्थ इत्यनेनैव भवति पूर्वविपरतिषेधेन॥
बाल-मनोरमा
विभाषा पुकुषे १०१७, ६।३।१०५

विभाषा पुरुषे। "कोः का इत्यादेश" इति शेषः। अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति "ईषदर्थे" इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह--ईषदर्थे हीति। वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात्।

तत्त्व-बोधिनी
विभाषा पुरुषे ८५९, ६।३।१०५

अप्राप्तविभाषेति। "ईषदर्थे"इत्यस्याननुवृत्तेरिति भावः।