पूर्वम्: ६।३।११६
अनन्तरम्: ६।३।११८
 
सूत्रम्
वले॥ ६।३।११७
काशिका-वृत्तिः
वले ६।३।११८

वले परतः पूर्वस्य दीर्घः भवति। आसुतीवलः। कृषीवलः। दन्तावलः। रजःकृष्यासुतिपर्षदो वलच् ५।२।१११ इति वलच् प्रत्ययो गृह्यते, न प्रातिपदिकम्। अनुत्साहभ्रातृपितृ̄णाम् इत्येव। उत्साहवलः। भ्रातृवलः। पितृवलः।
न्यासः
वले। , ६।३।११७

"वलच्प्रत्ययो गृह्रते, न प्रातिपदिकम्()" इति। एतच्च वक्ष्यमाणस्येह बहुलग्रहणस्य सिंहावलोकितव्यायेनोपस्थानाल्लभ्यत इत्येके। अनन्तरं वक्ष्यमाणेन मतुपा प्त्ययेन साहचर्याच्चेत्पपरे॥
बाल-मनोरमा
वले १०२५, ६।३।११७

वसे। कृषीवल इति। कृषिरस्यास्तीति विग्रहे "रजःकृष्यासुती"त्यादिना वलच्।

तत्त्व-बोधिनी
वले ८६४, ६।३।११७

कृषीवल इति। "रजः कृष्यासुती"त्यादिना मत्वर्थे वलच्।