पूर्वम्: ६।३।११९
अनन्तरम्: ६।३।१२१
 
सूत्रम्
इकः वहे अपीलोः॥ ६।३।१२०
काशिका-वृत्तिः
इको वहे ऽपीलोः ६।३।१२१

इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इकः इति किम्? पिण्डवहम्। अपीलोः इति किम्? पीलुवहम्। अपील्वादीनाम् इति वक्तव्यम्। इह मा भूत्, चारुवहम्।
न्यासः
इको वहेऽपीलोः। , ६।३।१२०

"ऋषीवहः" ["ऋषीवहम्()"--काशिका] इति। षष्ठीसमासः। वहशब्दः पचाद्यजन्तः। "अपील्वादीनाम्()" इत्यादि। यदेतदिको दीर्घविधानं तत्? पील्वादीनां न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्()--इहापि तदेव बहुलग्रहणं पूर्ववदुपतिष्ठते, तेन पीलुशब्दादन्येषामपि केषाञ्चिद्दीर्घत्वं न भविष्यतीति॥
बाल-मनोरमा
इको वहेऽपीलोः १०२८, ६।३।१२०

इको वहेऽपीलोः। "अपीलो"रिति च्छेदः। इगन्तस्येति। "पूर्वपदस्ये"ति शेषः।