पूर्वम्: ६।३।११
अनन्तरम्: ६।३।१३
 
सूत्रम्
बन्धे च विभाषा॥ ६।३।१२
काशिका-वृत्तिः
भन्धे च विभाषा ६।३।१३

बन्धः इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्त्तदुत्तरस्याः सप्तम्याः विभाषा अलुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्र विभाषेयम्। स्वङ्गाद् धि बहुव्रिहौ पूर्वेण नित्यम् अलुक् प्राप्नोति, तत्पुरुषे तु स्वङ्गादस्वाङ्गाच् च नैन्सिद्धबध्नातिसु च ६।३।१८ इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव, गुप्तिबन्धः।
न्यासः
बन्धे च विभाषा। , ६।३।१२

"स्वाङ्गात्()" ६।३।११ इति निवृत्तम्(), सामान्येन विधिः। "बन्धे" इति। बध्नातेरेतद्रूपम्()। "नेन्त्सिद्धबध्नातिषु च" ६।३।१८ इत्यनेन तत्पुरुषे बध्नातौ प्रतिषेधं वक्ष्यन्ति। तत्र विषयविभागो न ज्ञायते--तत्पुरुषे क्व च प्रतिषेधः? इत्यतस्तत्परिज्ञानार्थमाह--"बन्ध इति धञन्तो गृह्रते" इति। बन्धनं बनधः, भावे घञ्()। अनेन धञन्ते बध्नातौ विभाषा। प्रत्ययान्तरे तु प्रतिषेध इति दर्शितं भवति। कथं पुनज्र्ञायते--घञन्तोऽयमिति? आद्युदात्तत्वात्()। "हस्तेबन्धः" इति। तत्पुरुषः, बहुव्रीहिर्वा। "उभयत्र" इति। प्राप्ते चाप्राप्ते च कथं पुनरुभयत्र विभाषेयम्()? इत्याह--"स्वाङ्गाद्धि" इत्यादि॥
बाल-मनोरमा
बन्धे च विभाषा ९५६, ६।३।१२

बन्धे च विभाषा। शेषपूरणेन सूत्रं व्याचष्टे--हलदन्तादिति। बस्तेबन्ध इति। संज्ञायामिति सप्तमीत्तपुरुषोऽयम्। इह तत्पुरुष इति संबध्यते, "बन्ध" इति घञन्तम्, अन्यत्र तु "नेन्सिद्धे"ति निषेध इति स्पष्ट भाष्ये।

तत्त्व-बोधिनी
बन्धे च विभाषा ८२४, ६।३।१२

बन्धे च विभाषा। बन्ध इति घञन्तः। हस्तेबन्ध इति। बहुव्रीहिरयम्। तत्पुरुषे तु नेन्सिद्धबन्धातिषु चेति वक्ष्यमाणेन निषेध एवेत्याहुः। अप्सव्य इति। दिगादित्वाद्यति ओर्गुणे वान्तादेशः। प्राचा तु यतः स्थाने जं पठित्वा अप्सुजः इत्युदाह्मतं, तदाकरविरुद्धम्।

अपो योनियन्मतुषु। अप्सुमन्ताविति। कारीर्याम् अप्स्वग्ने सधिष्ठव अप्सु मे सोमो अब्रावीदित्याज्यभागमन्त्रौ स्तः। तत्र ह्रप्सुशब्दोऽस्तीति तद्द्वारा आज्यभागयोरप्यप्सुमत्त्वम्। प्राचा तु मतिषु इति पठित्वा अप्सुमतिः इत्युदाह्मतम्। अत्र केचित्--- अप्स्वित्येतदनुकरणशब्दः सप्तम्यन्तो न वा?। आद्ये सप्तम्यान्तात्प्रथमाया अभावेन मतुबेव दुर्लभः। अन्त्ये तु लुकः प्राप्तिरेव नास्ति, सप्तम्यभावात्। तथा च मतिषु इति प्राचोक्तः पाठ एव युक्तः। न च स पाठो भाष्यादौ न दृष्ट इति वाच्यं, मतिषु इति पाठस्य अप्सुमतिः इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्काप्यदर्शनात्, व्यर्थत्वाच्च। अस्यवामीयं कथाशुभीयम् इत्यादाविव लुकि कर्तव्ये प्रकृतिप्रकृतिवदनुकरणमित्यतिदेशाऽप्रवृत्त्यैवेष्टसिद्धेरित्याहुः।