पूर्वम्: ६।३।१२
अनन्तरम्: ६।३।१४
 
सूत्रम्
तत्पुरुषे कृति बहुलम्॥ ६।३।१३
काशिका-वृत्तिः
तत्पुरुषे कृति बहुलम् ६।३।१४

तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति। कुरुचरः। मद्रचरः।
लघु-सिद्धान्त-कौमुदी
तत्पुरुषे कृति बहुलम् ८१५, ६।३।१३

ङेरलुक्। सरसिजम्, सरोजम्॥
न्यासः
तत्पुरुषे कृतिबहुलम्?। , ६।३।१३

"स्तम्बेरमः, कर्णेजपः" इति। "स्तम्बकर्णयो रमिजपोः" ३।२।१३ इत्यच्(), "उपपदमितङ्" २।२।१९ इति तत्पुरुषः। "कुरुचरः, मद्रचरः" इति। "चरेष्टः" ३।२।१६ विभाषायां प्रकृतायां बहुलग्रहणं क्वचित्प्रवृत्त्यादीनामर्थानां संग्रहार्थम्()। तेनालुक्प्रवृत्तिः क्वचिदेव भवति--"स्तम्बेरमः" इत्यादौ। क्वचिदप्रवृत्तिरेव--"कुरुचरः" इत्यादौ। क्वचिदुभयम्()--"सरजिम्(), सरोजम्()" इत्यादौ। क्वचिदन्यदेव--"ब्राआहृणाच्छंसी" इत्यादौ। सप्तम्या अलुगुक्तः पञ्चम्या अपि भवति। तथा कृदन्त उत्तरपदेऽलुगुक्तस्तद्धितेऽपि भवति--अप्सु भवोऽप्सव्य इति। दिगादित्वाद्यत्()--"ओर्गुणः" ६।४।१४६ इति गुणः, "वान्तो यि प्रत्य" ६।१।७६ इति वान्तादेशः। तदेवं सर्वत्र बहुलग्रहणेन सिद्धमिति "ब्राआहृणाच्छंसिन उपसंख्यानम्()" (वा।७१६) इत्यादि। यदुक्तम्(), यच्च वक्ष्यते--"अपोयोनियन्मतुषु सप्तम्या अलुक्()" (वा।७२१) इत्यादि, तत्? सर्व न वक्तव्यं भवतीति यद्येवम्? स्तोकान्मुक्त इत्यादपि सर्वमनेनैव सिद्धमिति "पञ्चम्याः स्ताकादिभ्यः" (६।३।२) इति न वक्तव्यं भवति? सत्यमेतत्(); अस्यैव प्रपञ्चार्थं तद्वेदितव्यम्()। एवञ्च सति सुसंगृहीतं लक्ष्यं भवति। तथा चाह--त एव विषयाः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च॥
बाल-मनोरमा
तत्पुरुषे कृति बहुलम् ९५७, ६।३।१३

तत्पुरुषे कृति। तत्पुरुषे सप्तम्या बहुलमलुक्()स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः। स्तम्बेरम इति। तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती। कर्णेजप इति। कर्णे जपति=परदोषमुपां()आआविष्करोतीति कर्णेजपः पिशुनः। "स्तम्बकर्णयो रमिजपो"रित्यच्। उपपदसमासः। क्वचिन्नेति। बहुवग्रहणादिति भावः। कुरुचर इति। "चरेष्टः" इत्यधिकरण उपपदेः चरेष्टः। उपपदसमासः। यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धे "हलदन्ता"दिति नानुवत्र्तनीयमिति भावः।