पूर्वम्: ६।३।१
अनन्तरम्: ६।३।३
 
सूत्रम्
पञ्चम्याः स्तोकादिभ्यः॥ ६।३।२
काशिका-वृत्तिः
पञ्चम्याः स्तोकादिभ्यः ६।३।२

स्तोकान्मुक्तः। अल्पान्मुक्तः। उत्तरपदे इति किम्? निष्क्रान्तः स्तोकात् निस्तोकः। अन्यार्थम् इदम् उत्तरपदग्रहणम् इह अप्यलुको निवृतिं करोति इत्येवम् अर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या। अलुगधिकारः प्रागानङः। उत्तरपदाधिकारः प्रागङ्गाधिकारात्। पञ्चम्याः स्तोकाऽदिभ्यः ६।३।२। स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादगतः अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनाम् अनभिधानात् समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति। तेन अत्र न कदाचिदैकपद्यम् ऐकस्वर्यं च भवति। ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यम्। ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वा अवयवार्थेन क्रियते।
लघु-सिद्धान्त-कौमुदी
पञ्चम्याः स्तोकादिभ्यः ९३३, ६।३।२

अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥
न्यासः
पञ्चम्याः स्तोकादिभ्यः। , ६।३।२

स्तोकादय इति प्रातपदिकगणेषु न पठ()न्ते। तस्मात्? सूत्रपरिपठिता एवेह ग्रहीतव्या इति दर्शयन्नाह--"स्तोकान्तिकदुरार्थकृच्छ्राणि" इत्यादि। अथ "करणे" च" २।३।३३ इत्यादौ सूत्रे ये परिपठिताः स्ताकादयस्ते कस्मान्न गृह्रन्ते? एवं मन्यते--"ङसेः स्तोकादिभ्यः" इति वक्तव्ये "पञ्चम्याः" इति बहुतराक्षरनिर्देशेनैतत्? सूचितम्()--येषु स्ताकादिषु गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति ते ग्रहीतव्याः" इति। स्तोकान्तिकदूरार्थकृच्छ्राणीत्येतेष्वेव ["दूरार्थ" इति नास्ति मुद्रिते न्यासपाठे] गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति, तत्रार्थग्रहणात्(); न त्वितरेषु। तस्मादेषामेव ग्रहणं न्याव्यमिति। कथं पुनरत्र लुक्? प्राप्नोति, यस्मिन्? प्राप्ते प्रतिषेधोऽयं क्रियते? इत्याह--"समासे कृते" इत्यादि। समासे कृते सति तस्य "कृत्तद्धितसमासाश्च" १।२।४६ इति प्रातिपदिकत्वम्(), अतः "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति सुपो लुकि प्राप्ते प्रतिषेधोऽयमुच्यते। किं पुनः कारणमेकवचनान्तानां स्तोकादीनामलुगुदाह्यियते, न द्विवचनबहुवचनान्तानाम्()? इत्याह--"द्विवचनबहुवचनान्तानाम्()" इत्यादि। वृत्तौ हि विशेषणपदान्येकत्वादिकां संख्यां विहायाभेदैकत्वसंख्यां प्रतिपद्यन्ते। सा पुनः सख्यानमात्रमनुपात्तसंख्याविशेषं सामान्यभूतम्(); यत एवमतो विवक्षितार्थानभिधानादद्विवचनबहुवचनान्तनां समासो न भवत्येव। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। "तेन" इत्यादि। यत एवं द्विवचनबहुवचनान्तानां स्तोकादीनां समासो न भवति, तेन स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्त इत्यत्र न कदाचिदैकपद्यमैकस्वर्य च भवति। स्तोकाभ्यामित्यस्माद्धि पदान्मुक्त इत्येतत्? पदमन्यदेवात्यन्तभिन्नम्(), तथा स्तेकेभ्य इत्यस्मान्? मुक्त इत्येतत्()। स्वरोऽप्यत्रानेक एव। तथा हि--"स्तोकाभ्याम्()" इत्येतत्? प्रातिपदिकस्वरेम मध्योदात्तम्(), "मुक्तः" इत्येतत्? प्रत्ययस्वरेणान्तोदात्तम्()। एवम्? "स्तोकेभ्यो मुक्तः" इत्यत्रापि नानास्वरता वेदितव्या। मूलोदाहरणे तु समासे सत्येकपद्यं भवति, स्वरोऽप्येक एव। तथा हि--थाथादि६।२।१४३सूत्रेणात्रान्तोदात्तत्वम्()। यदि द्विवचनबहुवचनान्तानां समासो न भवतीह तर्हि कथं भवति--गोषुचरः वर्षासुज इति? विवक्षितार्थाभिधानात्()। अनभिधानं ह्रसमासे हेतुरुक्तः, इह तु विवक्षितार्थस्यार्थस्य बहुवचनस्याभिधानमस्त्येव। यत्र ह्रभेदैकत्वसंख्योपजायते, तत्र संख्याविशेषस्याभिधानं न भवति, न चात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिदानादभेदैकत्वसंख्या नोपपद्यते। तथा हि--गोषुचर इत्यत्र गोशब्दोऽप्सु वर्तते, स चापोऽभिदधानो बहुत्वसंख्याविशिष्ट एवाभिदधाति, अप्शब्दवत्()। वर्षासुज इति--वर्षाशब्दोऽपि कालविशेषे बहुत्वसंख्याविशिष्ट एव वर्तते। अतः प्रापिपदिकेनैव बहुत्वसंख्याया आश्रितत्वान्नात्राभेदैकत्वसंख्योपजायते। यदि तु जायेत, तदा बहुत्वसंख्या निवर्तेत, ततश्च गोशब्दस्य वर्षाशब्दस्य च यः प्रातिपदिकार्तोऽभिप्रेतः स इह न गम्येत। तस्मान्माभूद्गोशब्दवर्षाशब्दयोरभिप्रेतस्यार्थस्यानवगतिरिति नात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिधानाद् गोषुचरः, वर्षासुज इत्यत्र भवत्येव समासः। "ब्राआह्रणाच्छंसिन उपसंख्यानं कर्तव्यम्()" इति। ब्राआहृणाच्छंसीति योऽयं शब्दस्तस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। किं पुनरत्र न सिध्यति? पञ्चमीति। ब्राआहृणशब्देनात्राध्ययनविशेष उच्यते, तं शंसति=कथयति यः सः ब्राआहृणाच्छंसीति ताच्छिलिको णिनिः। अत्र ब्राआहृणशब्दात्? "कर्मणि द्वितीया" २।३।२ इति द्वितीयायां प्राप्तायां पञ्चम्युपसंख्येया। अलुक्पुनः "तत्पुरुषे कृति बहुलम्()" ६।३।१३ इत्येव सिद्धः। यदा तु ब्राआहृणादाकृष्यावयवमर्थं वा शंसतीति विवक्ष्यते, तदा पञ्चम्यपि नोपसंख्येया। "अपादाने पञ्चमी" २।३।२८ इत्येवमेव तस्याः सिद्धत्वात्()। कथं पुनरत्रासता पञ्चम्यर्थेन व्युत्पत्तिः क्रियते? इत्याह--"क्रत्विग्विशेष" इत्यादि। रूढिः=प्रसिद्धिः, संज्ञेति यावत्()। तस्या इत्यनेन रूढिमात्रं प्रत्यवमृश्यते, न तु ब्राआहृणाच्छंसीत्ययं रूढिशब्दः। रूढिशब्दः कस्याचिदेव ऋत्विग्विशेषस्य वाचकः, तत्रैव तस्य संज्ञात्वेन प्रणीतत्वात्()। तस्मात्? तस्याप्यसता सता वावयवार्थेन व्युत्पत्तिः क्रियते। तत्र यदि ब्राआहृणं शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्यापादानस्याभावादसतावयवार्थेन व्युत्पत्तिः क्रियते। यद#आ तु ब्राआहृणादवयबार्थं वा गृहीत्वा शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्य भावात्? सता॥
बाल-मनोरमा
पञ्चम्याः स्तोकादिभ्यः ९४४, ६।३।२

पञ्चम्याः स्तोकादिभ्यः। एभ्य इति। स्तोकादिभ्यः परा या पञ्चमी तस्या "सुपो धातु" इति लुङ् न स्यादित्यर्थः। उत्तरपदे इति। उत्तरशब्दः समासचरमावयवे रूढः, "पदे" इत्येव सिद्धे उत्तरग्रहणात्। स्तोकान्मुक्त इति। एवमल्पान्मुक्तः। "स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने"ति समासः। अत्र पञ्चम्या अलुक्। एवमिति। आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः। अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः। निःस्तोक इति। "निरादयः क्रान्ताद्यर्थे पञ्चम्ये"ति समासः। अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न। "स्तोकान्मुक्तः" इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च। किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च। स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम्।

ब्राआहृणाच्छंसिन उपसङ्ख्यानमिति। "पञ्चम्या अलु"गिति शेषः। ननु ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी?। विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते, "कर्मचोदना ब्राआहृणानि" इति कल्पसूत्रात्, "शेषे ब्राआहृणशब्दः" इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च। एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम् "ऋचः शंसति निविदः शंसती"ति श्रुतिष्वित्यत आह--ब्राआहृणे इति। शस्त्राणीति। ऋचा निविदां च सङ्घः शस्त्रम्। उपचारादिति। लक्षणयेत्यर्थः। द्वितीयार्थे इति। पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः।

तत्त्व-बोधिनी
पञ्चम्याः स्तोकादिभ्यः ८१७, ६।३।२

स्तोकान्मुक्त इति। समासप्रयोजनमैकपद्यमैकस्वर्यं, विशेषयोगाऽभावश्च। किंच स्तोकान्मुक्तस्यापत्यं स्तौकान्मुक्तिः स्तोकानमुक्तायाः स्तौकान्मुक्तेयः इति समुदायात्तद्धितोत्पत्तिरपि प्रयोजनम्। न च प्राथमिकसमासिकलुको निषेधेन चरितार्थत्वाद्बाह्रस्तद्धितनिमित्तो लुग्दुर्वार इति शङ्क्यं सुपो धातु इति शास्त्रस्यैकत्वादविशेषेण लुग्द्व्यस्यापि निषेधाभ्युपगमात्। इह स्तोकान्तिके ति समासशास्त्रपठिता एव स्तोकादयो गृह्रन्ते न तु करणे च स्तोकाल्पकृच्छ्रे ति सूत्रपठिताः। समासे सुपो लुकि प्रसक्ते विधीयमानेनाऽलुक्शास्त्रेण समासशास्त्रपठितानामविलम्बेनोपस्थितेव्र्याप्तिन्यायाच्च। स्तोकान्तिकेत्यत्र ह्रर्थग्रहणादन्यान्यपि बहूनि गृह्रन्ते। तदेतन्मनसि निधायाह-- एवमिति। दविवचनबहुवचनान्तानां तु समासो नेष्यते, अनभिधानात्। तेन स्तोकाभ्यां मुक्तः इत्यादौ वाक्यमेव।

ब्राआहृणाच्छंसिन उपसङ्ख्यानम्। शस्त्राणीति। प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधां स्तोत्रम्, अप्रगीतमन्त्रसाध्यगुणनिष्ठगुणाभिधानं शस्त्रमितियाज्ञिकानां व्यवहारः।

तत्त्व-बोधिनी
हलः ३३७, ६।३।२

हलः। र"संप्रसारणस्ये"त्यनुवर्तते। "अङ्गस्ये"त्यवयवषष्ठी। "हल" इति पञ्चमी। तदेतदाह--अङ्गावयवादिति। अङ्गावयवात्किम्?। निरुतम्। दुरुतम्। तदन्ताङ्गस्य किम्?। विध्यति। क्षीष् हिंसायाम्। षित्त्वादङ्। "क्षिया"। "हेति क्षियायाम्"। "क्षियाशी"रित्यादौ "क्षिया धर्मव्यतिक्रम आचारभेद" इति वक्ष्यति। दीर्घनिर्देशसामथ्र्यादिति। ननु दीर्घग्रहणेनाऽङ्गवृत्तपिरभाषा ज्ञाप्यत इत्याकरे स्थितम्। अन्यथा ज्ञाजनोर्जं विदध्यात्, "अतो दीर्घो यञी"ति दीर्घसिद्धेः। तथा च दीर्घनिर्देशसामथ्र्यस्योपक्षयात्कथमिह ह्यस्वाऽभावसिद्धिरिति चेत्। अत्राहुः-- ह्यस्वाऽभावे सत्येव दीर्घनिर्देश उक्तपरभाषाया ज्ञापकः। सति तु ह्यस्वे पुनरङ्गकार्यं प्रवृत्तमेवेति न ज्ञापकः। तथा च ह्यस्वाऽभावसिद्धौ न किंचिद्बाधकमिति। किंच "अङ्गवृत्ते पुनरङ्गवृत्तावविधि"रित्येव परिभाषाशरीरम्। तञ्चोक्तज्ञापकात्सिद्धम्। यदि तु "भ्यसो भ्य"मिति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाग्रन्तादवगम्यते। त()स्मस्तु पक्षे दीर्घग्रहणसामथ्र्यं नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति। केच#इत्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्यस्व इति व्याख्येयमित्याहुः। बध्नातीति। "अनिदिता"मिति नलोपः। अभान्त्सीदिति। "वदव्रजे"ति वृद्धिः। भष्भावः। अबान्द्()धामिति। "झषस्तथो"रिति तस्य धत्वम्। "झरो झरी"ति वा लोपः। वृङ् संभक्तौ। भक्तिर्भजनम्। श्रन्थ। कित्त्वपक्षे इति। "श्रन्थिग्रन्थदम्भिस्वञ्जीनां लिटः कित्त्वं वे"ति व्याकरणान्तरमित्युक्तत्वात्।