पूर्वम्: ६।३।१९
अनन्तरम्: ६।३।२१
 
सूत्रम्
षष्ठ्या आक्रोशे॥ ६।३।२०
काशिका-वृत्तिः
षष्ठ्या आक्रोशे ६।३।२१

आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोशे इति किम्? ब्राह्मनकुलम्। षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यम् अलुग् वक्तव्यः। वाचोयुक्तिः। दिशोदण्डः। पश्यतोहरः। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग् वक्तव्यः। अमुस्यापत्यम् आमुस्यायणः। नडादित्वात् फक्। अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका। मनोज्ञादित्वद् वुञ्। तथा आमुस्यकुलिका इति। देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः। देवानम् प्रियः। शेपपुच्छलङ्कूलेषु शुनः संज्ञायां अलुग् वक्तव्यः। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः। दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः। दिवोदासाय गायति।
न्यासः
षष्ठ�आ आक्रोशे। , ६।३।२०

"चौरस्यकुलम्()" इति। आक्रोशप्रतिपादनपरमेतत्(), न त्वनेन तस्य सम्बन्धो विवक्षितः। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्()। "पश्यतोहरः" इति। पश्यत इति "षष्ठी चानादरे" २।३।३८ इति षष्ठी। हरतीति हरः पचाद्यच्()। "अमुष्य" इति। अदसस्त्यदाद्यत्वम्(), "अदसोऽसेर्दादु दो मः" ८।२।८० इत्युत्त्वमत्वे, उत्त्वस्यासिद्धवात्()" टाङसिङसामिनात्स्याः" ७।१।१२ इति ङसः स्यादेशः। तथा "अमुष्यकुलिकेति" (इति)। यथा अमुष्यपुत्रिकेत्यत्र भनोज्ञादित्वात्? ५।१।१३२ वुञ्(), तथात्रापीत्यर्थः। "देवानाम्प्रियः" इति। प्रीणातीति प्रियः, "इगुपधज्ञाप्रीकिरः कः" ३।१।१३५ इति कप्रत्ययः इयङादेशः। "शुनःशेपः" इति। "()आयुवमघोनामतद्धिते" ६।४।१३३ इति सम्प्रसारणम्()॥
बाल-मनोरमा
षष्ठ�आ आक्रोशे ९६४, ६।३।२०

षष्ठ()आ आक्रोशे। "अलुगुत्तरपदे" इति शेषः। आक्रोशो-निन्दा।

वाग्दिक्। वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठ()आ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः। वाचोयुक्तिरिति। शब्दप्रयोग इत्यर्थः। दिशोदण्ड इति। अधिकरणस्य शेषत्वविवक्षायां षष्ठी। पश्यतोहर इति। पस्यन्तमनादृत्य हरतीत्यर्थः। "षष्ठी चानादरे" इति षष्ठी।

आमुष्यायणेति। वार्तिकमिदम्। एते निपात्यन्ते। अमुष्येति। अमुष्याषत्यमित्यर्थे "नडादिभ्यः फगि"ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे "आमुष्यायण" इति रूपमित्यर्थः। अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठ()आ अलुकि "अमुष्यपुत्र" शब्दः। अमुष्यपुत्रस्य भाव इत्यर्थे "द्वन्द्वमनोज्ञादिभ्यश्चे"ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापि "प्रत्ययस्था"दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः। एवमिति। अमुष्य कुलमिति षष्ठीसमासे षष्ठ()आ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः।

देवानामिति। वार्तिकमिदम्।मूर्खः-अज्ञः। "दिवु क्रीडायाम्"। देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोष()प्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादिति "अजेर्वी"त्यत्र कैयटः।

शेपपुच्छेति। वार्तिकमिदम्। षष्ठ()आ अलु"गिति सेषः। संज्ञायामिति। "भाष्यम् ष शुनश्शेप इति। शुनः शेप इव शेपो यस्येति विग्रहः। "मेढ्रो मेहनशेपसी"। शेफशब्दोऽप्यस्ति, "शेपाय स्वाहा" इति दर्शनात्। शुनःपुच्छ इति। शुनः पुच्छमिव पुच्छं यस्येति विग्रहः। एवं शुनोलाङ्गूल इत्यपि। ऋषिविशेषणां संज्ञा एताः।

दिवश्च दासे इति। वार्तिकम्। "षष्ठ()आ अलु"गिति शेषः। दिवोदास इति कश्चिद्राजर्षिरयम्।