पूर्वम्: ६।३।२२
अनन्तरम्: ६।३।२४
 
सूत्रम्
विभाषा स्वसृपत्योः॥ ६।३।२३
काशिका-वृत्तिः
विभाषा स्वसृपत्योः ६।३।२४

स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषा ऽलुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा मातृपितृभ्यां स्वसा ८।३।८४ इति नित्यं षत्वम्। यदा तु अलुक् तदा मातुः पितुर्भ्यम् अन्यतरस्याम् ८।३।८५ इति विकल्पेन षत्वम्। दुहितुःपतिः, दुहितृपतिः। ननान्दुःपितिः, ननान्दृपतिः।
न्यासः
विभाषा स्वसृपत्योः। , ६।३।२३

बाल-मनोरमा
विभाषा स्वसृपत्योः ९६७, ६।३।२३

विभाषा स्वसृपत्योः। ऋदन्तादिति। "विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन" इति शेषः। ततश्च "भोक्तृस्वसे"त्यत्र नातिव्याप्तिः।