पूर्वम्: ६।३।२६
अनन्तरम्: ६।३।२८
 
सूत्रम्
इद्वृद्धौ॥ ६।३।२७
काशिका-वृत्तिः
इद् वृद्धौ ६।३।२८

कृतवृद्धावुत्तरपदे देवताद्वन्द्वे अग्नेः इकारादेशो भवति। आग्निवारुणीमनड्वहीमालभेत। आग्निमारुतं कर्म क्रियते। अग्नीवरुणौ देवते अस्य, अग्नीअरुतौ देवते अस्य इति तद्धितः। तत्र देवताद्वन्द्वे च ७।३।२१ इत्युभयपदवृद्धौ कृतायाम् आनङ्, ईत्वं च बाधितुम् इकारः क्रियते। वृद्धौ इति किम्? आग्रेन्द्रः। नेन्द्रस्य परस्य ७।३।२४ इत्युत्तरपदवृद्धिः प्रतिषिध्यते। इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः। आग्नावैष्णवं चरुं निर्वपेत्।
न्यासः
इद्रवृद्धौ। , ६।३।२७

"अग्नेः" ६।३।२६ इत्यनुवत्र्तते, "देवताद्वन्द्वे" ६।३।२५ इति च। "सोमवरुणयोः" ६।३।२६ इति निवृत्तम्()। वृद्धिशब्देन साहचर्यात्? कृतवृद्ध्युत्तरपदं गृह्रते। अत एवाह--"कृतवृद्धावुत्तरपदे" इति। "आग्निवारुणीम्()" इति। औत्सर्गिकेऽणि कृते "टिङ्ढाणञ्()" ४।१।५ इति ङीप्()। अत्रापि तकार उच्चारणार्थः॥
बाल-मनोरमा
इद्वृद्धौ ९१५, ६।३।२७

आगेन्द्र इति। अग्निश्च इन्द्रश्च अग्नेन्द्रौ। "देवताद्वन्द्वे चे"त्यानङ्। आद्गुणः। अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः। "साऽस्य देवते"त्यण्। आदिवृद्धिः। अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाऽभावात्। "इद्वृद्धौ" इति नेति भावः। "देवताद्वन्द्वे चे"त्युभयपदवृद्धिमाशङ्क्याह--नेन्द्रस्येति।

विष्णौ नेति। विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः। आग्नावैष्णवमिति। अग्नि ष्च विष्णुश्च -अग्नाविष्णू। "देवताद्वन्द्वे चे"त्यानङ्। अगनाविष्णू देवते अस्येत्यर्थे "साऽस्य देवते"त्यण्। आग्नावैष्णवं हविः। "देवताद्वन्द्वे चे"त्युभयपदवृद्धिः। इत्त्वाऽभावादान व।

तत्त्व-बोधिनी
इद्वृद्धौ ७९१, ६।३।२७

इद्वृद्धौ। तकार उच्चारणार्थः। इकारस्येकारविधानं तु बाधकबाधनार्थम्। वृद्धिशब्देनाऽत्र वृद्धिमद्गृह्रते, वृद्धिमात्रस्योत्तरपदस्याऽसंभवात्। अतो व्याचष्टे---वृद्धिमत्युत्तरपद इति। आनङमीत्वं च बाधित्वेति। यद्यपि वृद्धेः प्रागेव आनङीत्वयोरन्तरङ्गत्वात्प्रवृत्तिरस्ति, तथापि "परिह्मत्यापवादविषयमत्सुर्गोऽभिनिविशते, इति न्यायादानङीत्वे न भवत इति भावः। आग्नावेष्णवमिति। इत्वाऽभावादानङेव भवति।