पूर्वम्: ६।३।३१
अनन्तरम्: ६।३।३३
 
सूत्रम्
पितरामातरा च च्छन्दसि॥ ६।३।३२
काशिका-वृत्तिः
पितरामातरा च च्छन्दसि ६।३।३३

पितरामातरा इति छन्दसि निपात्यते। आ मा गन्तां पितरामातरा च। पूर्वपदस्य अराङादेशो निपात्यते। उत्तरपदे तु सुपां सुलुक् पूर्वसवर्णाऽआच्छेयाडाड्यायाजालः ७।१।३९ इति आकारादेशः। तत्र ऋतो ङिसर्वनामस्थानयोः ७।३।११० इति गुणः। छन्दसि इति किम्? मातापितरौ।
न्यासः
पितरामातरा च च्छन्दसि। , ६।३।३२