पूर्वम्: ६।३।३४
अनन्तरम्: ६।३।३६
 
सूत्रम्
क्यङ्मानिनोश्च॥ ६।३।३५
काशिका-वृत्तिः
क्यङ्मानिनोश् च ६।३।३६

क्यङि परतो मानिनि च स्तिर्या भाषितपुंस्कादनूङ् पुंवत् भवति। एनी एतायते। श्येनीश्येतायते। मानिनि दर्शनीयमानी अयमस्याः। दर्शनीयमानिनी इयमस्याः। मानिनो ग्रहणम् अस्त्र्यर्थम् असमानाधिकरणार्थं च। इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेण एव सिद्धम्।
न्यासः
क्यङ्मानिनोश्च। , ६।३।३५

"एतायते, श्येतायते" इति। एतश्येतशब्दाभ्यां "वर्णादनुदात्तात्? तोपधात्? तो नः" ४।१।३९ ["एत()ओतशब्दाभ्याम्()"--मुद्रितः पाठः] इत्यनेन ङीप्(), तकारस्य नकारः। एनीवाचरति, श्येनीवाचरति--"कर्त्तुः क्यङ्? सलोपश्च" ३।१।११ इति क्यङ्(), "अकृत्सार्वधातुकयोः७।४।२५ इति दीर्घत्वम्()। "अयमस्यां दर्शनीयमानी" ["दर्शनीयमानी अयमस्याः"--काशिका] इति। दर्शनीयामिमां मन्यतेऽयमिति। "मनः" ३।२।८२ इति णिनिः। "दर्शनीयमाननीयमस्याः" इति। दर्शनीयामिमां मन्यत इति पूर्ववण्णिनिः "ऋन्नेभ्यो ङीप्()। ४।१।५ इति ङीप्()। किं पुनः कारणं स्त्रियां समानाधिकरण इत्यनुवत्र्तमानेऽस्त्रियामसमानाधिकरणे च मानिन्युत्तरपदे पुंवद्भाव उदाह्यियत इत्याह--"मानिनो ग्रहणम्()" इत्यादि। कथमेतज्ज्ञायते? इत्याह--"इह तु" इत्यादि। यद्युत्तरपदं स्त्रियां वर्तते समानाधिकरणं च भवति--दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीत्येवमादौ। तत्र यस्मात्? "स्त्रियां पुंवत्()" ६।३।३३ इत्यनेनैव सिद्धम्(), अतो मानिनो गरहणमस्त्र्यर्थम्()। असमानाधिकरणाच्चेत्येतदवसीयते; अन्यथा हि तदनर्थकं स्यात्()॥
बाल-मनोरमा
क्यङ्भानिनोश्च ८२७, ६।३।३५

क्यङ्मानिनोश्च। एतयोरिति। क्यङि मानिनि च उत्तरपदे परत इत्यर्थः। एनोवेति। एता-चित्रवर्णा। "चित्रं किर्मीरकल्माषशबलैताश्च कर्बु"रे" इत्यमरः। एतशब्दः ()ओतपर्याय इति याज्ञिकाः। "वर्णादनुदात्ते"ति ङीब्नकारश्च। "उपमानादाचारे" इत्यनुवर्तमाने "कर्तुः क्यङ् सलोपश्चे"ति एनीशब्दात्क्यङि पुंवत्त्वे ङीब्नत्वयोर्निवृत्तौ, "अकृत्सार्वधातुकयो"रिति दीर्घे "एतायते" इति रूपमिति भावः। श्येनीवेति। श्येतशब्दः ()ओतपर्यायः। "शुक्लशुभ्रसुचि()ओतविशदश्येतपाण्डुराः" इत्यमरः। क्यङादि पूर्ववत्। ननु "स्त्रियाः पुंव"दित्येव मानिनीत्यनुत्तरपदे परतः पुंवत्त्वसिद्धेर्मानिन्ग्रहणं किमर्थमित्याशङ्क्य मानिन्ग्रहणमसमानाधिकरणार्थमस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति--स्वभिन्नामिति। दर्शनीयमानिनीति। "दर्शनीया"मिति द्वितीयान्ते उपपदे "सुप्यजातौ णिनि"रित्यनुवृत्तौ "मन" इति ण्निप्रत्ययः। उपपदसमासः, सुब्लुक्। असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ "ऋन्नेभ्यः" इति ङीपि दर्शनीयमानिनीति रूपम्। या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाः "स्त्रियाः पुंव"दित्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं--"स्वभिन्ना"मित्युक्तम्। एकस्या एवं दर्शनीयाया मनधात्वर्थं प्रति कर्मत्वकर्तृत्वसंभवेऽपबि वास्तवाऽभेदेन मानिनीशब्दसमानाधिकरण्यसत्त्वादिति भावः। अथाऽस्त्रीलिङ्गे उत्तरपदे उदाहरति--दर्शनीयामिति। स्त्रियामित्यनन्तरमात्मानमिति शेषः आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः। अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुंलिङ्गत्वात्तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः।

तत्त्व-बोधिनी
क्यङ्भानिनोश्च ७२५, ६।३।३५

क्यङ्भा। एतयते इत्यादि। "कर्तुः क्यङ् सलोपश्च"।क्यङि पुंवद्भावे कृते एतश्येतयोः "अकृत्सार्वे"ति दीर्घः। मानिन्()ग्रहणमसमानाधिकरणार्थमस्त्र्यर्थं चेत्याशयेन यथाक्रममुदाहरति--स्वाभिन्नामित्यादिना। दर्शनीयमानिनीति। "मनः"इति णिनिः। नान्तत्वान्ङीप्। या त्वात्मानमेव दर्शनीयां मन्यते तत्र "स्त्रियाः पुंव"दित्येव सिद्धम्। एकस्या अपि ईप्सिततमत्वव्यापाराश्रयत्वविवक्षाभेदेन कर्मकर्तृत्वयोः सत्त्वेऽपि वास्तवाऽभेदेन सामानाधिकरण्याऽविधातादिति भावः।