पूर्वम्: ६।३।३९
अनन्तरम्: ६।३।४१
 
सूत्रम्
जातेश्च॥ ६।३।४०
काशिका-वृत्तिः
जातेश् च ६।३।४१

जातेश्च स्त्रियाः न पुंवद् भवति अमानिनि परतः। कठीभार्यः। बह्वृचिभार्यः। कठीपाशा। बह्वृचीपाशा। कठीयते। बह्वृचीयते। अमानिनि इत्येव, कठमानिनी। बह्वृचमानिनीइ। अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न इष्यते। हस्तिनीनां समूहो हास्तिकम्।
न्यासः
जातेश्च। , ६।३।४०

"कठीभार्यः" इति। कठशब्दात्? "जातेरस्त्रीविषयादयोपधात्? ४।१।६३ इति ङीष्()। जातित्वं त्वस्य "गोत्रञ्च चरणैः सह" (४।१।६३; मा। भा।२।२२५) इति लक्षणेन। "अयम्()" इत्यादि। "भस्याढे तद्धिते" (वा।७३१) इत्यौपसंख्यानिको यः पुंवद्भावस्तस्यायं प्रतिषेधो नेष्यते। यस्मादस्य प्रतिषेधस्य बाधनार्थमुत्तरसूत्रे पुंवदिति योगविभागः कत्र्तव्य इत्यभिप्रायः॥
बाल-मनोरमा
जातेश्च ८३२, ६।३।४०

जातेश्च। "ईत" इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याह--जातेः परोः यः स्त्रीप्रत्यय इति। शूद्राभार्य इति। "शूद्रा चामहत्पूर्वे"ति जातिलक्षणङीषोऽपवादष्टाप्। पुंवत्त्वनिषेधान्न टापो निवृत्तिः। ब्राआहृणीभार्य इति। पुंवत्त्वनिषेदान्न शाङ्र्गरवादिङीनो निवृत्तिः। ननु हस्तिनीनां समूहो हास्तिकमित्यत्र "अचित्तहस्ती"ति ठकि हस्तिनीशब्दस्य "भस्याऽढे" इति कथं पुंवत्त्वं "जातेश्चे"ति निषेधादित्यत आह--सौत्रस्यैवायं निषेध इति। सूत्रविहितस्येत्यर्थः। "भस्याऽढे" इति तु वार्तिकमिति भावः। एतच्च "न कोपधायाः" इति सूत्रे भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
जातेश्च ७२९, ६।३।४०

जातेश्च। यद्यत्र "जातेरित्येव विहित" इति व्याख्यायेत तर्हि हास्तिकमित्युदाहरणे "औपसङ्ख्यामिकस्य नायं निषेद"इति भाष्योक्तिर्न सङ्गच्छेत। हस्तिन्()शब्दात् "जाते"रिति ङीष्न विहितः, अदन्तत्वाऽभावात्, किं तु "ऋन्नेभ्यः"इति ङीब्विहित इति पुंवद्भावनिषेधस्याऽप्रसक्तेरत आह--जातेः पर इति। एवं च "हस्तनीभार्यः", इत्यादावपि निषेधः सिध्यतीति भावः।