पूर्वम्: ६।३।४२
अनन्तरम्: ६।३।४४
 
सूत्रम्
नद्याः शेषस्यान्यतरस्याम्॥ ६।३।४३
काशिका-वृत्तिः
नद्याः शेषस्य अन्यतरस्याम् ६।३।४४

नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम्। कश्च शेषः? अङी च या नदी ङ्यन्तं च यदेकच्। ब्रहमबन्धूतरा, ब्रहमबन्धुतरा। वीरबन्धूतरा। वीरबन्धुतरा। स्त्रितरा, स्त्रीतरा। स्त्रितमा, स्त्रीतमा। कृन्नद्याः प्रतिषेधो वक्तव्यः। लक्ष्मीतरा। तन्त्रीतरा।
न्यासः
नद्याः शेषस्यान्यतरस्याम्?। , ६।३।४३

"भाषितपुंस्कादनूङ्()" ६।३।३३ इति निवृत्तम्()। "कश्च शेषः" इति। यदि पूर्वसूत्रेण यस्य ह्यस्वो न विहितः स शेषः, ततो यद्भाषितपुंस्कं यच्च भिन्नायामाकृतौ भाषितपुंस्कं नैचाच्? तस्यापि शेषत्वं स्यात्(), ततश्चामलकीतरा, द्रोणीतरेत्यत्रापि विकल्पेन ह्यस्वत्वपं स्यात्()। न ह्रत्()र ह्यस्वत्वं पूर्वसूत्रेण विहितमित्यभिप्रायेणाऽ‌ऽह--"अङी च या नदी ङ्यन्तश्च यदेकाच्()" इति। एतेन श्रुतापेश्रयाऽत्र शेषत्वामाश्रीयते, न तु यस्य ह्यस्वो न विहितः, तदपेक्षयेति दर्शयति। कथं पुनरेतल्लभ्यते? शेषग्रहणात्()। अन्तरेणापि शेषग्रहणं शेषस्यैव विकल्पेन ह्यस्वत्वं भविष्यति। तथा हि यदि ङ्योऽनेकाचो भाषितपुंस्कस्यापि विभाषा ह्यस्वः स्यात्, तदा पूर्वयोग एवेदमन्यतरस्यांग्रहणं कुर्यात्()। इह कारणाद्यस्य पूर्वेण ह्यस्वो न विहितस्तस्यैव पाक्षिकं ह्यस्वत्वमन्तरेणापि शेषग्रहणं शेषस्यैव भविष्यतीत्यवसीयत इति किं शेषग्रहणेन? तत्? क्रियते "ङ्योऽनेकाचः" (६।३।४३) इति पूर्वसूत्रे योऽच्? श्रूयते तदपेक्षया शेषो विज्ञायत इत्येवमर्थम्()। न चमलकीतरा, द्रीणीतरेत्यत्र श्रुतापेक्षया शेषत्वमुपपद्यते; ङ्योऽनेकाच्त्वात्()। तस्मान्न भवत्यत्र ह्यस्वत्वप्रसङ्गः। "स्त्रीतरा" इति। स्त्यायतेर्डट्? डित्वाट्टिलोपः, वलिलोपश्च ६।१।६४, टित्वान्? ङीप्()। वक्तवयः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषाविज्ञानात्? कृन्नद्या न भविष्यतीति। "लक्ष्मीतरा" इति। "अवितृ()स्तृ()तन्त्रिभ्य ईः" (द।उ।१।८२) "र्लक्षेर्मुट्? च", (द।उ।१।८४) इतीकारप्रतययान्तो लक्ष्मीशब्दो व्युत्पादितः। कृन्नद्ययं भवति॥
बाल-मनोरमा
नद्याः शेषस्यान्यतरस्याम् ९७१, ६।३।४३

नद्याः शेषस्या। उक्तादन्यः शेषः। "ङ्यन्तस्यानेकाच" इति पूर्वसूत्रे स्थितं, तदन्यत्वं च अनेकाचो ङ्यन्तत्वाऽभावे ङ्यन्तस्यानेकाच्त्वाभावेऽपि संभवति। तदाह--अङ्यन्तनद्या ङ्यन्तस्यैकाचश्चेति। "ऊङुतः" इति ब्राहृबन्धुशब्द ऊङन्तः। भाषितपुंस्कस्येति तु नैहानुवर्तत इत्यबिप्रेत्योदाहरति--स्त्रितरेति।

कृन्नाद्या नेति। कृदन्ता या नदी तस्या ह्यस्वो नेतिवाच्यमित्यर्थः। लक्ष्मीतरेति। "लक्षेर्मुट् च" इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः।

तत्त्व-बोधिनी
नद्याः शेषस्यान्यतरस्याम् ८२७, ६।३।४३

उक्ताद्नयशेषः, स च द्विदेत्याह-- अङ्यन्तेति। उपलक्षणमेतत्। भाषित्पुंस्केत्यपि नेह संबध्यत इत्याशयेनाह-- स्त्रीतरेति।