पूर्वम्: ६।३।४४
अनन्तरम्: ६।३।४६
 
सूत्रम्
आन्महतः समानाधिकरणजातीययोः॥ ६।३।४५
काशिका-वृत्तिः
आन्महतः समानाधिकरनजातीययोः ६।३।४६

समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परतो महतः आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये महाजातीयः। समानाधिकरणजातीययोः इति किम्? महतः पुत्रः महत्पुत्रः। लक्षणोक्तत्वादेव अत्र न भविष्यति इति चेद् बहुव्रीहावपि न स्याद् महाबाहुः इति। तदर्थं समानाधिकरणग्रहणं वक्तव्यम्। अमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमाः इत्यत्र गौणत्वान् महदर्थस्य न भवत्यात्वम्। महदात्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थम्। महत्याः घासः महाघासः। महत्याः करः महाकरः। महत्याः विशिष्टः महाविशिष्टः। अष्टनः कपाले हविष्युपसङ्ख्यानम्। अष्टकपालं चरुं निर्वपेत्। हविषि इति किम्? अष्टकपालं ब्राह्मणस्य। गवि च युक्ते ऽष्टन उपसङ्ख्यानं कर्तव्यम्। अष्टागवेन शकटेन। युक्ते इति किम्? अष्टगवं ब्राह्मणस्य तपरकरणं विस्पष्टार्थम्।
लघु-सिद्धान्त-कौमुदी
आन्महतः समानाधिकरणजातीययोः ९६२, ६।३।४५

महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥
न्यासः
आन्महतः समानाधिकरणजातीययोः। , ६।३।४५

"महादेवः, महाब्राआहृणः" इति। "सन्महत्()" २।१।६० इत्यादिना कर्मधारयः। "महाबाहुः" इति। बहुव्रीहिः। "लक्षणोक्तत्वात्()" इत्यादिना परमतमाविष्कृत्य निराकरोति। स्यादेतत्()--उत्तरपदेन समासः सन्निधापितः, समासे हि सत्युत्तरपदं भवति, स च समासो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) महतो यः प्रतिपदोक्तः "सन्महत्()" २।१।६० इत्यादिना साक्षाद्विशेषविहित स एव गृह्रते, न तु यो लाक्षणिकः सामान्यलक्षणोक्तश्च समासः--महत्पुत्र इति? अत्र "षष्ठी" २।२।८ इति सामान्यलक्षणेन विहितत्वात्(), तस्मादत्र न भविष्यतीति। यद्येवम्(), बहुव्रीहावपि न स्यात्(); तस्यापि लाक्षणिकत्वात्()। "तदर्थम्()" इत्यादि। बहुव्रीहावप्यात्त्वं यता स्यादित्येवमर्थं समानाधिकरणग्रहँ कत्र्तव्यम्()। तत्र सतद्येषा परिभाषा नोपतिष्ठते। यद्युपतिष्ठते समानाधिकरणमनर्थकं स्यात्(); महतो यः प्रतिपदोक्तः समासस्तस्य समानाधिकरणपदत्वात्()। तस्याश्चानुपस्थाने सति बहुव्रीहावप्यात्त्वं भवति। असति तु समानाधिकरणग्रहणे तया परिभाषयेहोपस्थातव्यम्()। ततश्च यता महत्पुत्र इत्यत्र न भवति, तथा बहुव्रीहावपि महाबाहुरित्यत्र न स्यात्()। "अमाहन्? महान्? सम्पन्नो महद्भूतश्चन्द्रमा इति यत्रार्थे च्व्यन्तो महच्छब्दो वत्र्तते तत्रैव भूतशब्दोऽपि, तस्मात्? सामानाधिकरण्ये सतद्यात्त्वेन भवितव्यम्()"--इति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकत्तुमाह--"अमहान्? महन्()" इत्यादि। "महद्भूतः" इति। महच्छब्दात् "अभूततद्भावे" ५।४।५० इत्यादिना च्विः, तस्य "ऊर्यादिच्विडाचश्च" १।४।६० इति गतिसंज्ञकत्वाद्भूतशब्देन "कुगतिप्रादयः" २।२।१८ इति समासः। "गौणत्वात्()" इत्यादि। लोके हि शब्दादुच्चरिताद्गौणमुख्यार्थसम्भवे सति मुख्यार्थंएवं सम्प्रत्ययो भवति, न तु गौणेऽप्रदाने। तथा हि--"गौरानीयताम्()" इत्युक्ते सास्नादिमानेवानीयते, न तु बाहीक इति। तस्मादिहापि महच्छब्दादुच्चारितान्मुख्य एव महदर्थे सम्प्रत्ययो भवति, न गौणे। गौणश्चात्र महदर्थः। तदभिधानाच्च महच्छब्दोऽपि गौण इति न भवत्यात्त्वम्। ननु च महत्त्वेन युक्तश्चन्द्रमा महानेव, तदयुक्तं महदर्थस्य गौणत्वम्()? नैतदस्ति; सर्वत्रैव हि च्व्यन्तेनार्थ आश्रितपूर्वावस्थ उपचरितोत्तरावस्थ उच्यते, तस्मादिहापि चन्द्रमा अमहत्त्वपूर्वावस्थो महच्छब्देनोच्यमान उपचरितमहत्त्वानुगतोत्तरावस्थ एव उच्यत इति युक्तास्य गौणता। यदि गौणत्वान्महच्छब्दस्यात्त्वमिह न भवति, तदा पुंवद्भावोऽपि न स्यात्(), अमहती ब्राआहृणी महती सम्पन्ना महद्भूतेति; वृद्ध्यात्त्वे च गौणस्य गोशब्दख्य न स्याताम्(), गौर्वाहीकस्तिष्ठतीति वृद्धिर्न स्यात्? "गौतो णित्()" (७।१।९९) इति गौणाद्? गौशब्दात्? परस्य सर्वनामस्थानस्य णित्त्वेऽसति गां वाहीकमानयेत्यत्र "औतोऽम्शसोः" (६।१।९३) इत्यात्त्वं न स्यात्()? नैष दोषः; पुंवद्भावस्तावत्? "स्त्रियाः पुंवत्()" ६।३।३३ इति योगविभागाद्भविष्यति। योगविबागश्चावश्यं कत्र्तव्यो गर्भिभार्य इत्याद्यर्थः, महत्या घासो महाघास इत्याद्यर्थश्च; सोऽन्यार्थः क्रियमाण एतदर्थोऽपि भविष्यति। ननु च क्रियमाणेऽपि योगविभागे नैवात्र पुंवद्भावः प्राप्नोति, महदर्थस्य गौणत्वात्(), योगविभागस्य चान्यत्र चरितार्थत्वात्()? एवं तर्हि "पुंवत्कर्मधारय" ६।३।४१ इति सूत्रे द्वितीयः पुंवदिति योगविभागः किष्यते, स गौणार्थो भविष्यति। वृद्ध्यात्त्वाभावदोषोऽपि न प्रसजति; यस्माद्()वाक्यात्? तत्र गौणत्वं प्रतीयते। पद्सय तु मुख्य एवार्थः, न च पदसंस्कारवेलायां वाक्यार्थोऽपेक्ष्यते। "महादात्त्वे" इत्यादि। समानाधिकरण आत्त्वपुंवद्भावौ विधीयमानौ व्यधिकरणे न प्राप्नुतः। तस्माद्वयधिकरणेऽप्युत्तरपदे घासादौ महदात्तवस्योपसंख्यानं कत्र्तव्यम्()। उपसंख्यानमित्यस्य प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्()--"आन्महतः" ६।३।४५ इत्यत्रापि "आत्()" इति योगविभागं करिष्यति, तेन महत्या घासो महाघास इत्यादावात्त्वं भविष्यतीति। स चावश्यं योगविभागः कत्र्तव्यः--अष्टाकपालमित्याद्यर्थम्(), सोऽन्यार्थं क्रियमाण एतदर्थोऽपि भवति। "पुंवद्वचनं च" इत्यादि। घासकरविशिष्टेष्वित्यपेक्ष्यते। पुंवद्भावस्य वचनं व्याख्यानं कत्र्तव्यम्(), तच्च पूर्वमेव कृतम्()। "अष्टनः कपाले" इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्च प्रतिपादनं पूर्वमेव कृतम्()। "अष्टाकापालम्()" इति। अष्टसु कपालेषु संस्कृतमिति "तद्धितार्थ" २।१।५० इत्यादिना समासः, "संस्कृतं भक्षाः" ४।२।१५ इत्यण्(), तस्य "द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक। "अष्टकपालं ब्राआहृणस्य" इति। अष्टानां कपालानां समाहारोष्टकपालम्(), समाहारे द्विगुः। अत्र पात्रादित्वात् (वा।१५९) स्त्रियां न भाष्यते। तेन "द्विगोः" (४।१।२१) इति ङीब्? न भवति। "गवि च युक्ते" इत्यादि। गोशब्दे चोत्तरपेद युक्तार्थे गम्यमानेऽष्टन्शब्दस्यात्त्वस्य प्रतिपादनं कत्र्तव्यम्()। तच्च प्रतिपादनं पूर्वमेव कृतम्()। "अष्टागवेन शकटेन" इति। अष्ठौ गावो युक्ता अस्मिन्निति त्रिपदोऽयं बहुव्रीहिः। युक्तशब्दस्तु गम्यमानत्वाद्वतौ न प्रयुज्यते, यथा दध्योदन इत्यत्रोपसिक्तशब्दः। यदि च बहुव्रीहिरयम्(), तदा "गोरतद्धितलुकि" (५।४।९२) इति टच्? समासान्तो न प्राप्नोति; तत्पुरुषाधिकारात्()? मा भूत्? टच्? "अच्? प्रत्यन्ववपूर्वात्()" (५।४।७५) इत्यत्र अजिति योगविभागात्? भविष्यति, यथा--कृष्णभूमः, पद्यनाम इत्यादौ। अथ वा--अष्टानां गवां समाहारोऽष्टगवम्(), अष्टगवेन युक्तमष्टागवम्()। न चैवं युक्तशब्दस्य प्रयोगः प्रसजति; पदैकदेशस्य प्रयोगात्(), यथा--सत्यभामा भामा, भीमसेनो भीमः, बलभद्रो बल इति। "एकादश" इत्यत्रापि तत एव योगविभागादात्त्वं वेदितव्यम्()। योगविभागस्य च लिङ्गम्()--"प्रागेकादशभ्यः" ५।३।४९ इति निर्देशः। "तपकरँ विस्पष्टार्थम्()" इति। अथ भिन्नकालानां निवृत्त्यर्थ कस्मान्न भवति? भाव्यमानेनाणा सवर्णानामग्रहणात्()। गुणान्तरभिन्नानां तर्हि ग्रहणं कस्मान्न भवति? गुणानामभेदकत्वात्()॥
बाल-मनोरमा
आन्महतः समानाधिकरणजातीययोः ७९७, ६।३।४५

अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन्विशेषमाह--आन्महतः। "अलुगुत्तरपदे" इत्युत्तरपदाधिकारस्थमिदं सूत्रम्। "उत्तरपदे" इत्यनुवृत्तंसमानाधिकरणपदेऽन्वेति, न तु जातीये इति, तस्य प्रत्ययत्वात्। तदाह--महत आत्त्वमित्यादिना। महाब्राहृ इति। महांश्चासौ ब्राहृआ चेति विग्रहः। "सन्मह"दित्यादिना समासः। आत्त्वम्। सवर्णदीर्घः। "कुमहद्भ्या"मिति टच्। टिलोपः "परवल्लिङ्ग"मिति पुंस्त्वम्। महाब्राहृएति। टजभावे आत्वे रूपम्। अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन्समानाधिकरणे पुनरुदाहरति--महादेव इति। जातीये उदाहरति--महाजातीय इति। महत्सदृश इत्यर्थः। "प्रकारवचने जातीयर्"। आत्त्वं सवर्णदीर्घः। समानाधिकरणे किमिति। "आन्महतो जातीये चे"त्येवास्तु, चकारादुत्तरपदसमुच्चये सति महतद आत्त्वं स्यादुत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः, किं समानाधिकरणेनेति प्रश्नः। महत्सेवेति। अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः। ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्टानुच्चार्य सामान्यशास्त्रत एव निर्बर्तितत्वात्। "सन्मह"दित्ययं समासस्तु सन्महदादिशब्दं समस्यमान#ं विशिष्योच्चार्या विहितत्वात्प्रतिपदोक्तः। ततश्च लक्षणप्रतिपदोक्तपरिभाषया "आन्महतो जातीये चे"त्यत्र "सन्मह"दिति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते--लाक्षणिकमित्यादिना। परिहरति--महाबाहुर्न स्यादिति। महान्तौ बाहू यस्येति विग्रहः। अस्य समासस्य "अनेकमन्यपदार्थे" इति सामान्यविहितत्वात्प्रतिपदोक्त्वाऽभावात्तदुत्तरपदे परे आत्त्वं न स्यादतः समानाधिकरणग्रहणमित्यर्थः। ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेर्दुर्वारत्वान्महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह--तस्मादिति। तच्छब्दार्थमाह--समानाधिकरणग्रहणसामथ्र्यादिति। एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः। नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम्?। आत्त्वविधेः पदाङ्गाधिकारस्थत्वाऽभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात्। "परममहत्वपिरमाणवा"नित्यत्र तु महतः परिमाणं महत्परिमाणं, परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति द#इक्। ननु "आन्महतः" इत्यत्र महत एव ग्रहणात् "द्व्यष्टनः" इत्युत्तरसूत्रे द्व्यष्टनोरेव ग्रहणादेकादशेत्यत्र कथमात्त्वमित्यत आह--योगविभागादात्त्वमिति। योगविभागस्य भाष्याऽदृष्टत्वादाह--निर्देशाद्वेति। एकादशेति। एकश्चदश चेति द्वन्द्वः। एकाधिका दशेति वा। "आन्महत" इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयप्र्रत्यये परे महताजातीयेति स्यादित्यत आह--महतीशब्दस्येति। नच परत्वात्पुंवत्त्वं बाधित्वा आत्वं स्यादिति वाच्यम्, "आन्महतः" इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः। महदात्त्वे इति। "घास" "कर" "विशिष्ट"-एषु परतो महत आत्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः। ननु "आन्महतः" इत्यात्त्वे "पुंवत्कर्मधारये"ति पुंवत्त्वे च सिद्धे किमर्थमिदमित्यत आह--असामानाधिकरण्यार्थमिति। महाकर इति। महतो महत्या वा कर इत्यर्थः। महाविशिष्ट इति। महतो महत्या वा विशिष्टः। अधिक इत्यर्थः।

अष्टन इति। कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः। अष्टाकपाल इति। अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः। "सस्कृतं भक्षाः" इत्यण्। "द्विगोर्लुगनपत्ये" इति लुक्। आत्त्वं। सवर्णदीर्घः।

गवि च युक्ते। वार्तिकमिदम्। तत्सूचयितुमाह--वक्तव्यमित्यर्थ इति। अष्टागवं शकटमिति। अष्टौ गावो यस्येति बहुव्रीहिः। आत्त्वं, सवर्णदीर्घः। अष्टभिर्गोभिर्युक्तमित्यर्थः। ननु "गोरतद्धितलुकी"ति टज्विधेस्तत्पुरुषमात्रविषयत्वादष्टागविमिति कथमित्यत आह--अच्प्रत्ययन्ववेत्यत्रेति। तत्पुरुषत्वेऽष्टगवशब्दष्टजन्त एवेत्याह--अष्टानामिति। तथा च समाहारद्विगोस्तत्पुरुषत्वा "गोरतद्धितलुकी"ति टच्सुलभ इत्यर्थः। नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाऽभावात्, कतं वा आत्त्वमित्य आह--तद्युक्तत्वादिति। समाहाद्लिगुरूपतत्पुरुषाट्टचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः।

तत्त्व-बोधिनी
अन्महतः समानाधिकरणजातीययोः ७०२, ६।३।४५

आन्महतः। तकार उच्चारणार्थो, न तु सर्वादेशार्त इत्याह---आकारोऽन्तादेशः स्यादिति। इहोत्तरपदाऽधिकारे पूर्वपदमाक्षिप्यते। तच्च महता विशेषितमिति तदन्तविधिर्लभ्यते। "ग्रहणवता"इति निषेधस्तु प्रत्ययविधिविषय इत्युक्तत्वात्। तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवति। "परममहत्परिमाण"मित्यत्र तु परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषोऽभ्यु पगम्यत इति न तत्राऽ‌ऽत्वप्रसक्तिरिति वृद्धाः। यत्तु वद्र्धमानेनोक्तम्---"इष्टकेषीकामालानामित्यत्र तदन्तविध्युपसङ्ख्यानसमाथ्र्यादुत्तरपदाधिकारे तदन्तविधिर्नास्ति, तेन परममहत आत्वं ने"ति, तद्भाष्यकैयटविरुद्धम्। तथाहि--"येन विधि"रिति सूत्रे पदाधिकारे प्रयोजनमिष्टकचितं पक्वेष्टकचितमिति भाष्ये उदाह्मतं, कैयटेन च पदशब्देन उत्तरपदं गृह्रत इति व्याख्यातम्। एतदेवाऽर्थतः काशिकायामुपनिबद्दं न तु " इष्टकेषीके"त्यत्र कात्यायनोक्तमुपसङ्ख्यानमस्ति। ननु प्रतिपदोक्तसमासे यदुत्तरपदं तस्मिन्नेव परे आत्वं स्यान्नन्यत्रेति किमनेन समानाधैकरणग्रहणेनेत्यत आह--महाबाहुरिति। बहुव्रीहिरयम्, स च सामान्यशास्त्रनिर्वृत्तत्वाल्लाक्षणिक इति भावः। अष्टनः कपाल इति। कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्वं वक्तव्यमित्यर्थः

अष्टाकपाल इति। "संस्कृतं भक्षाः" इत्यणः "द्विगोर्लुगनपत्ये"इति लुक्। "अध्यर्धपूर्वे"त्यणो लुगिति केषांचिद्व्याख्यानं तु प्रामादिकं, "संस्कृत"मित्यणोऽनाहीयत्वात्।