पूर्वम्: ६।३।४७
अनन्तरम्: ६।३।४९
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्॥ ६।३।४८

पदच्छेदः॥ विभाषा १।१ चत्वारिंशत्-प्रभृतौ ७।१ सर्वेषाम् ६।३ सङ्ख्यायाम् ७।१ ४६ अबहुव्रीह्यशीत्योः ६।२ ४६ उत्तरपदे ७।१

समासः॥

चत्वारिंशत् प्रभृति यस्य तत् चत्वारिंशत्-प्रभृति, तस्मिन्, ॰, बहुव्रीहिः।

अर्थः॥

चत्वारिंशत्-प्रभृतौ सङ्ख्यायाम् उत्तरपदे अबहुव्रीह्यशीत्योः सर्वेषां द्व्यष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाषा भवति।

उदाहरणम्॥

द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टचत्वारिम्शत्, अष्टाचत्वारिंशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्।
काशिका-वृत्तिः
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ६।३।४९

चत्वारिंशत्प्रभृतौ संख्यायाम् उत्तरपदे ऽबहुव्रीह्यशीत्योः सर्वेषाम् द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाष भवति। द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्। प्राक्शतातित्येव, द्विशतम्। अष्टशतम्। त्रिशतम्।
न्यासः
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्?। , ६।३।४८

सर्वग्रहणं द्व्यष्टनोरपि यथा स्यादित्येवमर्थम्(); इतरथा हि "अनन्तरस्या विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति त्रेरेव स्यात्()। मण्डुकप्लुतिन्यायेन द्व्यष्टन इत्येतदपीहानुवर्तिष्यते, ततोऽयमदोष इति चेत्()? एवं तर्हि विस्पष्टार्थं सर्वग्रहणमिति॥
बाल-मनोरमा
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ८००, ६।३।४८

विभाषा चत्वारिंशत्। व्यवहितस्यापि "द्व्यष्टनो"रित्यस्य सम्बन्धाय--सर्वेषामिति। द्व्यष्टनोस्त्रेश्चेत्यर्थः। तदाह--द्व्यष्टनोस्त्रेश्चेति।