पूर्वम्: ६।३।४९
अनन्तरम्: ६।३।५१
 
सूत्रम्
वा शोकष्यञ्रोगेषु॥ ६।३।५०
काशिका-वृत्तिः
वा शोकष्यञ्रोगेषु ६।३।५१

शोक स्यञ् रोग इत्येतेषु परतः हृदयस्य वा हृदादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ् सौहार्द्यम्, सौहृदयम्। ब्राह्मणादित्वात् ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ७।३।१९ इत्युभयपदवृद्धिः। रोगे हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरम् अस्ति, तेन एव सिद्धे विकल्पविधानं प्रपञ्चार्थम्।
न्यासः
वा शोकष्यञ्रोगेषु। , ६।३।५०

"सौहाद्र्यम्()" इति। शोभनं ह्मदयमस्येति बहुव्रीहिः। ततः ष्यञ्()। "ह्मदयशब्देन" इत्यादि। ह्मदयशब्देनेह समानर्थे ह्मच्छब्दे सति यदा ह्मच्छबदस्य प्रयोगः, तदा ह्मच्छोक इति भविष्यति, यदा ह्मदयशब्दसय तदा ह्मदयशोक इति, ततश्च तेनैव प्रकृत्यन्तरेण सिद्धे विकल्पविधानमिदं न कत्र्तव्यम्()। एतत्? क्रियते तु प्रपञ्चार्थम्। स एव सिद्धप्रयोगोऽनेन सूत्रेण कथ्यत इति॥
बाल-मनोरमा
वा शोकष्यञ्रोगेषु ९७४, ६।३।५०

वा शोक। सौहाद्र्यमिति। ब्राआहृणादित्वाद्भावे ष्यञि "ह्मद्भगसिन्द्वन्ते" इत्युभयपदवृद्धिः। सौह्मदय्यमिति। भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौ "यस्येति चे"ति लोपे रूपमिति भावः।

तत्त्व-बोधिनी
वा शोकष्यञ्रोगेषु ८३०, ६।३।५०

सौहार्यमिति। ब्राआहृणादित्वात्ष्यञ्, ह्मद्भगसिन्ध्वन्ते इत्युबयपदवृद्धिः।