पूर्वम्: ६।३।५०
अनन्तरम्: ६।३।५२
 
सूत्रम्
पादस्य पदाज्यातिगोपहतेषु॥ ६।३।५१
काशिका-वृत्तिः
पादस्य पदाऽज्यातिगौपहतेसु ६।३।५२

पादस्य पद इत्ययम् आदेशो भवति आजि आति ग उपहत इत्येतेषु उत्तरपदेषु। पादाभ्यम् अजति इति पदाजिः। पादाभ्याम् अतति इति पदातिः। अज्यतिभ्यां, पादे च इत्यौणादिकः इण् प्रत्ययः। तत्र अजेर् वीभवो न भवति अत एव निपातनात्। पादाभ्यां गच्छति इति पदगः। पादेन उपहतः पदोपहतः। पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि ६।२।४८ इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति। पदाजिः, पदातिः, पदग इत्येतेषु कृत्स्वरेण समासस्य एव अन्तोदात्तत्वम्।
न्यासः
पादस्य पदाज्यातिगोपहतेषु। , ६।३।५१

"पदाजिः" इति। "अज गतिक्षेपणयोः" (धा।पा।२३०)। "पदातिः" इति। "अत सातत्यगमने" (धा।पा।३८)। "अज्यतिभ्याञ्च पादे च" इत्यौणादिक इण्प्रत्ययः" इति। अत्र "जनिघसिभ्यामिण्()" (द।उ।१।५८) इत्यत इष्ग्रहणानुवृत्तेः। यदौणादिक इण्प्रत्ययः, एवं सति तत्र "अजेव्र्यघञपोः" (२।४।५६) इति वीभावः कस्मान्न भवति? इत्याह--"तत्र" इत्यादि। "पदगः" इति। "अन्तात्यन्ताध्वदूरपार" (३।२।४८) इत्यादौ सूत्रे "डप्रकरणऽन्यत्रापि दृश्यते इति वक्तव्यम्()" (वा।२५६) इत्युक्तम्()। तेन पादशब्देऽप्युपपदे गमेर्डप्रत्ययः। "पदोपहतः" इति। "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः, पूर्वत्र तूपपदसमासः। अकारान्तोऽयमादेशः। प्रथमायाश्च लुकं कृत्वा निर्देश। "पादशब्दोऽयम्()" इत्यादि। "कर्षात्वतो घञोऽन्त उदात्तः" ६।१।१५३ इत्यन्तोदात्तत्वे प्राप्ते पादशब्दस्य वृषदित्वादाद्युदात्तत्वं विधीयते, ततश्च तस्य स्थाने पदादेशो विधीयमान आन्तरतम्यादाद्युदात्त एव स्यात्? अन्तोदात्तश्चेष्यते। तस्मादान्तोदात्तो निपात्यते उपदेशावस्थायामेव। "तेन" इत्यादिनान्तोदात्तनिपादनस्य फलं दर्शयति। "पदाजिः, पदातिः" इत्यादिनाप्युपदेशग्रहणस्य। यदि "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इति प्रकृतस्वरे कृते पदशब्दस्यान्तोदात्ततवं निपात्यते, तदा तस्य सतिशिष्टत्वं स्यात्(), ततश्च पदाजिः पदातिः पदग इत्येषु कृत्स्वरो बाध्यते; सतिशिष्टस्वरस्य बलीयस्त्वात। उपदेशावस्थायांत्वन्तोदात्तत्वनिपातने कृत्स्वर एव सतिशिष्टो भवति। अतस्तेन समासस्यैवान्तोदात्तत्वं भवति न पदशब्दस्य॥
बाल-मनोरमा
पादस्य पदाज्यातिगोपहतेषु ९७५, ६।३।५१

पादस्य पद। "पदे"ति लुप्तप्रथमाकं पृथक्पदम्। एष्विति। आजि, आति, ग, उपहत-इत्येतेष्वित्यर्थः। अदन्त इति। उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादितिभावः। अजतीति। "अज गतिक्षेपणयोः"। पदातिरिति। पादाभ्यामततीति विग्रहः। "अत गतौ" अज्यतिभ्यामिति। पादे उपपदे अजधातोरतधातोश्च इण्स्यादिति तदर्थः। "अजी"त्यस्य "अजेव्र्यघञपो"रिति वीभावमाशङ्क्याह--अजेव्र्यभावो निपातनादिति। आजीति निर्देशादित्यर्थः। पदग इति। पादाभ्यां गच्छतीत्यर्थः। "गमश्च", "अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः" इति सूत्रस्थेन "अन्येभ्योऽपि दृश्यते" इति वार्तिकेन गमधातोर्ङः। तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः। दकारान्तादेशे तु "पद्ग" इति स्यात्। पदोपहत इति। पादाभ्यामुपहत इति विग्रहः। अत्रापि दकारान्तादेशे "पदुपहत" इति स्यात्।

तत्त्व-बोधिनी
पादस्य पदाज्यातिगोपहतेषु ८३१, ६।३।५१

पादस्य पद। उत्तरसूत्रे पद्ग्रहणात्पदेत्ययमदन्तः, सौत्रो विभक्तिलुक्। तदाह-- अदन्त आदेश इति। तेन पदगः इत्यादि सिद्धम्।