पूर्वम्: ६।३।६१
अनन्तरम्: ६।३।६३
 
सूत्रम्
ङ्यापोः संज्ञाछन्दसोर्बहुलम्॥ ६।३।६२
काशिका-वृत्तिः
ङ्यापोः संज्ञाछन्दसोर् बहुलम् ६।३।६३

ङ्यन्तस्य अबन्तस्य च संज्ञाछन्दसोः बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम् रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति। नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ग्यन्तस्य छन्दसि कुमारिदा प्रफर्विदा। न च भवति। फल्गुनीपौर्णमासी। जगतीछदः। आबन्तस्य संज्ञायाम् शिलवहम्। शिलप्रस्थम्। न च भवति। लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि अजक्षीरेण जुहोति। ऊर्णम्रदाः पृथिवी दक्षिणावत। न च भवति। ऊर्णासूत्रेण कवयो वयन्ति।
न्यासः
ङ्यापोः संज्ञाछन्दसोर्बहुलम्?। , ६।३।६२

"रेवतिपुत्रः" इति षष्ठीसमासः। एवं "रोहिणिपुत्रः" इत्यादावपि। कुमारीं ददातीति "कुमारिदा"। उर्वी ददातीति "उर्विदा"। "आतोऽनुपसर्गे कः" ३।२।३। "फाल्गुनी" इत्यादि। फाल्गुनी चासौ पौर्णमासौ चेति फाल्गुनी पौर्णमासौ, "विशेषणम्()" २।१।५६ इत्यादिना समासः। एवं "जगतीच्छन्दः" इत्यत्रापि। "शिलवहम्(), शिलप्रस्थम्()" इति। शिलाशब्दसय वहप्रस्थशब्दाभ्यां "षष्ठी" २।२।८ इत्यनेन समासः। "लोमकागृहम्(), लोमकाषण्डम्()" इति। अत्रापि लोमकाशब्दसय गृहषण्डशब्दाभ्याम्()। "अजक्षीरेण इति। अत्राप्यजाशब्दस्य क्षीरशब्देन। "ऊर्णमृत्()" ["ऊर्णमृदा"--काशिका। ऊर्णम्रवा--पदमञ्जरी] इति। ऊर्णासहिता मृद्? ऊर्णमृत्()। शाकपर्थिवादित्वादुत्तरपदलोपी समासः॥
बाल-मनोरमा
ङ्यापोः संज्ञाछन्दसोर्बहुलम् ९८६, ६।३।६२

ङ्यापोः। "उत्तरपदे ह्यस्वः स्या"दिति शेषः। रेवतिपुत्र इति। कस्यचित्संज्ञेयम्। अथ छन्दस्युदाहरति--अजक्षीरमिति। अजायाः क्षीरमिति विग्रहः। "परमं वा एतत्पयो यदजक्षीर"मिति तैत्तिरीये।