पूर्वम्: ६।३।६३
अनन्तरम्: ६।३।६५
 
सूत्रम्
इष्टकेषीकामालानां चिततूलभारिषु॥ ६।३।६४
काशिका-वृत्तिः
इष्टकाइषीकामालानां चिततूलभारिषु ६।३।६५

इष्टकेषीकामालानां चित तूल भारिनित्येतेषु उत्तरपदेषु यथासङ्ख्यं ह्रस्वो भवति। इष्टकचितम्। इषीकतूलम्। मालभारिणी कन्या। इष्तकादिभ्यस् तदन्तस्य अपि ग्रहणं भवति। पक्वेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या।
न्यासः
इष्टकेषीकामलानां चिततूलभारिषु। , ६।३।६४

"इष्टकचितम्()" इति। "कर्तृकरणे" २।१।३१ इत्यादिना समासः। "इषीकतूलम्()" इति। षष्ठीसमासः। "मालभारिणी" इति। मालां भर्त्तुं शीलमस्या इति ताच्छील्ये णिनिः ३।२।७८, "उपपदमतिङ्()" २।२।१९ इति समासः। "इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवति" इति। बहुलग्रहणानुवृत्तेरित्यभिप्रायः॥
बाल-मनोरमा
इष्टकेषीकामालानां चिततूलभारिषु ९९१, ६।३।६४

इष्टकेषीका। उत्तरपदे इत्यधिकृतम्। तल्लब्धं पूर्वपदमिष्टकादिभिर्विशेष्यते। तदन्तविधिः। व्यपदेशिवद्भावात्तेषामपि ग्रहणम्। उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात् "पदाङ्गधिकारे तस्य तदन्तस्य चे"ति वचनेन वा तेषां ग्रहणम्। "इको ह्यस्वः" इत्यतो ह्यस्व इत्यनुवर्तते। तदाह--इष्टकादीनां तदन्तानां चेति। इष्टकचितमिति। इष्टकादिभिश्चितमिति विग्रहः। "कर्तृकरणे कृते"ति समासः। तदन्तविधेः प्रयोजनमाह--पक्वेष्टकचितमिति। इषीकातूलमिति। इषीकायास्तूलमिति विग्रहः। तूलमग्रं। शष्पमित्यन्ये। मुञ्जेषीततूलमिति। मुञ्जेषीकायास्तूलमिति विग्रहः। मालभारीति। "सुप्यजातौ" इति णिनिः। [सूत्रे]हारिष्विति पाठान्तरम्।

तत्त्व-बोधिनी
इष्टकेषीकामालानां चिततूलभारिषु ८४२, ६।३।६४

इष्टकचितमिति। "कर्तृकरणे कृते"ति तृतीयासमासः। पक्वेष्टकचितमिति। पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः। मालभारीति। "मालां बिभर्ती"त्यर्थः। "सुप्यजातौ" इति णिनिः। "हारिषु"इति पाठान्तरम्।