पूर्वम्: ६।३।६८
अनन्तरम्: ६।३।७०
 
सूत्रम्
कारे सत्यागदस्य॥ ६।३।६९
काशिका-वृत्तिः
कारे सत्यागदस्य ६।३।७०

कारशब्द उत्तरपदे सत्य अगद इत्येतयोर् मुमागमो भवति। सत्यं करोति, सत्यस्य व कारः सत्यङ्कारः। एवम् अगदङ्कारः। अस्तुसत्यागादस्य कार इति वक्तव्यम्। अस्तुङ्कारः। भक्षस्य छन्दसि कारे मुम् वक्तव्यः। भक्षं करोति, भक्षस्य वा करः भक्षङ्कारः। छन्दसि इति किम्? भक्षकारः। धेनोर् भव्यायां मुम् वक्तव्यः। धेनुम्भव्या। लोकस्य पृणे मुम् वक्तव्यः। लोकम्पृणः। इत्ये ऽनभ्याशस्य मुम् वक्तव्यः। अनभ्याशमित्यः। भ्राष्ट्राग्न्योरिन्धे मुम् वक्तव्यः। भृआष्ट्रमिन्धः। अग्निमिन्धः। गिले ऽगिलस्य मुम् वक्तव्यः। तिमिङ्गिलः। अगिलस्य इति किम्? गिलगिलः। गिलगिले चेति वक्तव्यम्। तिमिङ्गिलगिलः। उष्णभद्रयोः करणे मुम् वक्तव्यः। उष्णङ्करणम्। भद्रङ्करणम्। सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः। सूतपुत्री, सूतदुहिता। उग्रपुत्री, उग्रदुहिता। राजपुत्री, राजदुहिता। भोजपुत्री, भोजदुहिता। मेरुपुत्री, मेरुदुहिता। केचित् तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति, तेषां पुत्री इति भवति। अन्यत्र अपि हि दृश्यते शैलपुत्री इति।
न्यासः
कारे सत्यागदस्य। , ६।३।६९

"सत्यं करोति" इत्यनेन कर्मण्यणं सूचयति। "सत्यस्य कारः" इत्यनेनापि घञम्()। एवं "अगदङ्कारः" इत्यत्राप्यण्घञौ वेदितव्यौ। "अस्तुङ्कारः" इति। भावे घञ्()। अस्तुशब्दो विभक्तिप्रतिरूपको निपातोऽभ्युपगमे वर्तते। अस्त्वित्यभ्युपगमस्य करणस्तुङ्कारः। "भक्षङ्कारः" इति। भावे घञ्()। "धेनुम्भव्या" इति। "भव्यगेय" ३।४।६८ इत्यादिना कर्तरि कृत्यः। धेनुश्चासौ भव्या चेति धेनुम्भव्या। "लोकम्पृमः" इति। "पृण प्रीणने", (धा।पा।१३२९) लोकं पृणतीति मूलविभुजादित्वात्? कः। "अनभ्याशमित्यः" ["अनम्याशमित्यम्()"--मुद्रितः पाठः] इति। अनभ्याशं दूरमित्यं गन्तव्यमस्येत्यनभ्याशमित्यः। इन्धनमिन्धः, भावे घञ्()। भ्राष्ट्रस्येन्दो "भ्राष्ट्रमिन्धः"। अग्नेरिन्धोऽग्निमिन्धः। "तिमिङ्गिलः" इति। "गृ निगरणे" (धा।पा।१४१०)। तिमिं गिलतीति पर्ववत्? कः, "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्(), रपरत्वम्(), "अचि विभाषा" ८।२।२१ इति लत्वम्()। "गिलिगिलः" इति। गिलं गिलतीति पूर्वववत्? कः, इत्त्वादि च। "गिलगिले च" इति। गिलं गिलतीति गिलगिलः। "आतश्चोपसर्गे" (३।१।१३६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्? कः। पूर्वत्राप्येवं कविधाने न दोषः। तिमीनां गिलगिल इत्यस्मिन्नर्थे विवक्षित इदं वक्तव्यम्()। अथ तिमिं गिलतीति तिमिङ्गिलः, तिमिङ्गलं गिलतीत्येधोऽर्थो यदा विवक्ष्यते तदा पूर्वेणैव सिद्धमिति नार्थ एतेन। "उष्ट्रङ्करणम्(), भद्रङ्करणम्()" इति। षष्ठीसमासौ। "पुत्रट्()" इति। टकारो ङीबर्थः। केचित्तु शाङ्र्गरवादिषु पुत्रशब्दं पठन्ति" इति। तान्? प्रति नेदमुपसङ्ख्यानं कत्र्तव्यम्()। "अन्यत्रापि दृश्यते" इति। अनेन शाङ्र्गरवादिषु पुत्रशब्दस्य पाठं द्रढयति॥
बाल-मनोरमा
कारे सत्यागदस्य ९९२, ६।३।६९

कारे सत्यागदस्य। शेषपूरणेन सूत्रंव्याचष्टे-मुम्स्यादिति। "अरुर्द्विष"दित्यतस्तदनुवृत्तेरिति भावः। सत्यस्य अगदस्य च कारे परे मुम्स्यादिति फलितम्। मुमि मकार इत्। उकार उच्चारणार्थः। मित्त्वादन्त्यादचः परः। सत्यङ्कार इति। भावे घञ्। सत्यस्य कार इति विग्रहः। शपथकरणमित्यर्थः। अगजङ्कार इति। गदो-रोगः, तस्याऽभावऋ-अगदः। अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः। अगदस्य कार इत्यर्थः।

अस्तोश्चेति। "कारे मु"मिति शेषः। अस्तुङ्कार इति। अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते।

धेनोरिति। "मुम्वक्तव्य" इति शेषः। धेनुभव्येति। नवप्रसवात्प्रागियमुक्तिः। भविष्यन्ती धेनुरित्यर्थः। "भव्यदेये"ति कर्तरि निपातनात्कृत्यप्रत्ययः। धेनुश्चासौ भव्याचेति विग्रहः। मयूरव्यंसकादित्वाद्भव्याशब्दस्य परनिपातः।

लोकस्य पृणे इति। "मुम्वक्तव्य" इति शेषः। ननु लोकं पृणतीति विग्रहे कर्मण्यणि लधूपधगुणे रपरत्वे "पर्ण" इति स्यादित्यत आह--मूलाविभुजादित्वात्क इति।

इत्येऽनभ्याशस्येति। "मुम्वक्तव्य" इति शेषः। अनभ्याशमित्य इति। अभ्याशः--समीपम्, अनभ्याशं-दूरं। द्वितीयान्तमिदम्। इण्धातोः प्रापणार्थकात् "एतिस्तुशा"सित्यादिना क्यप्, "गम्यादीनामुपङ्ख्यान"मिति द्वितीयासमासः। सुब्लुकि मुम्। दूरं प्रापयितव्यः, नतु समीपमित्यर्थं मनसि निधायाह--दूरतः परिहर्तव्य इति।

भ्राष्ट्राग्न्योरिन्धे इति। "मुम्वक्तव्य" इति शेषः। भ्राष्ट्रमिन्ध इति। भ्राष्ट्रं-धानादिभर्जनार्गं पात्रम्, तत् इन्द्धे=तापयतीति भ्राष्ट्रमिन्धः। कर्मण्यणि उपपदसमासः। सुब्लुकि, मुम्। अग्निमिन्झ इति। अ()ग्न प्रज्वलयतीत्यर्थः।

गिलेऽगिलेस्येति। "अगिलस्ये"ति च्छेदः। गिले परे गिलभिन्नस्य मुम्वाच्य इत्यर्थः। तिमिङ्गिल इति। "गृ? निगरणे"। तिमिः--मत्स्यविशेषः। तं गिलतीति मूलविभुजादित्वात्कः। "ॠत इद्धातोः" इति रपरत्वे "अचि विभाषे"ति लत्वम्, उपपदसमासः। सुब्लुकि मुम्। गिलगिल इति। अयमपि मत्स्य विशेषः।

गिलगिले चेति। अगिलस्य मुम् वाच्य इत्यर्थः। तिमिङ्गिलगिल इति। गिलं गिलतीति। गिलगिलः, तिमीनां गिलगिल इति विग्रहः। संबन्धसामान्ये षष्ठी। तिमिषु गिलगिल इति निर्धारणसप्तमी वा। "संज्ञाया"मिति सप्तमीसमासः।

उष्णभद्रयोः करणे इति। मुम्वाच्य इत्यर्थः। उष्णङ्करणं, भद्रङ्करणमिति षष्ठीसमासः।

तत्त्व-बोधिनी
कारे सत्यगदस्य ८४३, ६।३।६९

कारे सत्या। "अरुर्द्विष"दित्यतोऽनुवर्तनादाह--मुम्स्यादिति। सत्यङ्कारः--शपथकरणम्। अशपथेऽपि "सत्यादशपते"इति डाचं बाधित्वा पत्वान्मुमेव। अगदङ्कारो वैद्यः।

अस्तोश्चेति वक्तव्यम्। अस्तुङ्कारेऽभ्युपगमः। अस्त्विति तिङन्तप्रतिरूपकमव्ययम्।

धेनोर्भव्यायाम्। धेनुम्भव्येति। भविष्यन्ती धेनुरित्यर्थः। "भव्येगेये"ति निपातनात्कर्तति कृत्यः। धेनुश्चासौ भव्या चेकि विग्रहः। गौतमस्मृतौ तु "अधेनुभव्या"इत्यत्र आर्षत्वान्मु म्नेति बोध्यम्। लोकम्पृण इति। पृणधातुः प्रीणनार्थः। "पृणतिः पूरणकर्मा"इति तु हरदत्तः।

इत्येऽनभ्याशस्य। अनभ्यशमित्य इति। अभ्यासं=समीपं, तद्भिन्नमनभ्याशम्। "एतिस्तुशास्वृदृजुषः"इति इणः क्यप्।

भ्राष्ट्राइयोरिन्धे। भ्राष्ट्रमिन्ध इति। कर्मण्यपि उपपदसमासः। एवमग्निमिन्धोऽपि।

गिलेऽगिलेस्य च।गिलेऽगिलस्येति। गिलशब्दे उत्तरपदे अगिलस्य मुमुत्यर्थः।तिमिङ्गिल इति। मत्स्यविशेषः। गिरतेर्मूलविभुजादित्वात्कः। "अचि विभाषे"ति लत्वम्।

गिलिगिले च। गिलगिले चेति। "गिलं गिलति इति गिलगिलः, तिमीनां गिलगिलः"इति विग्रहे इदमारब्धम्।